________________
[ ७५
चतुरङ्गीयमध्ययनम् ३ ]
मिथ्यावादी निह्नवः सप्तम इति भगवदुक्तमाकर्ण्यागता शासनदेवता, भगवदुक्तमाचख्यौ, गोष्ठामाहिल्लः प्राहैषाल्पर्धिका तत्र गन्तुमेव न शक्नोति, तदा गोष्ठामाहिल्लस्यैकान्ते दुर्बलिकापुष्पाचार्यैरेवमुक्तम्- हे आर्य ! प्रतिपद्यस्व भगवदुक्तमन्यथा सङ्घेन त्वं बहिः करिष्यसे । स न प्रतिपद्यते तदा सङ्खेन सप्तमोऽयं निह्नव इति कृत्वा द्वादशविधसम्भोगाद्वहिष्कृतः । द्वादशविधसम्भोगश्चायं पञ्चकल्पे
"उवहि १, सुअ २, भत्तपाणे ३, अंजलिपग्गहे ४, दायणा ५, य णिक्काए अ ६, अट्ठाणे ७, किइकम्म- करणे ८, वेयावच्चकरणे य ९ ॥ ९ ॥ समोसरणे सन्निसेज्जा १०, कहाए अ ११, निमंतणे १२ ॥
इति सप्तमनिह्नवकथा प्रतिपादिता (७) सप्ताप्येते देशविसंवादिनो निह्नवाः, सम्प्रति प्रसङ्गत एव बहुतरविसंवादिबोटिका उच्यन्ते
"छव्वासएहि नव्वुत्तरेहिं तइया सिद्धि गयस्स वीरस्स । तो बोडिआण दिट्ठी, रहवीरपुरे समुप्पना" ॥ १ ॥
[ आव. मू.भा.गा. १४५ ]
वीरात् षट्शतनववर्षेषु गतेषु रथवीरपुरे दीपकोद्याने समवसृता आर्यकृष्णाचार्याः, तत्र नगरे एक: शिवभूतिनामा सहस्रमल्लो राज्ञः समीपे समागत्य वक्ति तव सेवां करोमि । राज्ञोक्तं परीक्षां कृत्वा तव सेवावसरो दास्यते । अन्यदा कृष्णचतुर्दश्यां राज्ञासावाकारितः, उक्तं च गच्छाऽस्यां रात्रौ श्मशाने; इदं मद्यमयं पशुः स्वबलिर्देयः, तद् द्वयं गृहीत्वा स तत्र गतः, अन्ये पुरुषास्तद्भापनार्थं प्रच्छन्नवृत्या पश्चात् प्रेषिताः, सहस्रमल्लेन क्षुधार्तेन पशुं निहत्य तन्मासं भक्षितम्, मद्यं च पीतम्, तैः पुरुषैः शिवाफेत्कारशब्दैर्भापितो न बिभेति, पश्चादागत्य सहस्रमल्लेन राज्ञे उक्तम्, मया बलिर्दत्तः, सेवकैरपि तद्वीरत्वमुक्तम्, राज्ञा स्वसेवायां रक्षितः । अन्यदा राज्ञा मथुराग्रहणार्थं स्वसेवकाः प्रेषिताः, तैः समं सहस्रमल्लोऽपि प्रेषितः । मार्गे गच्छद्भिस्तैः परस्परमुक्तं भोऽस्माभिः सम्यग् राज्ञो न पृष्टम्, का मथुरा ग्राह्येति । सहस्रमल्लेनोक्तं द्वे अपि मथुरे ग्राह्ये, यत्र दुष्करं तत्राहं यास्यामि, एवमुक्त्वा स गतः पाण्डुमथुरायाम्, गृहीता च सा बलेन । उक्तं च -
शूरे त्यागिनि विदुषि च, वसति जनः स च जनाद्गुणी भवति । गुणवति धनं धनाच्छ्रीः, श्रीमत्या जायते राज्यम् ॥ १ ॥
नगरीं गृहीत्वा स पश्चादायातः, राज्ञा तुष्टेन भणितं, भो तुष्टोऽहं मार्गय मनोऽभीष्टं ? ततस्तेनोक्तं मम देहि सर्वत्र स्वेच्छाभ्रमणं, दत्तं राज्ञा । अथासौ निरन्तरं स्वेच्छया सर्वत्र
१ उपधिः श्रुतं भक्तपाने, अञ्जलिप्रग्रहे दानं च निकाचना च ।
अभ्युत्थाने कृतिकर्मकरणे, वैयावृत्त्यकरणे च ॥ १ ॥ समवसरणे सन्निषद्या, कथा च निमन्त्रणा ॥ २ " षट्सु वर्षशतेषु नवोत्तरेषु सिद्धिं गतात् वीरात् ।
तदा बोटिकानां दृष्टी रथवीरपुरे समुत्पन्ना ॥ १ ॥”