________________
७४]
[उत्तराध्ययनसूत्रे ___ अष्टमे कर्मप्रवादे पूर्वे कर्म प्ररूप्यते, तत्र जीवस्य कर्मणां कथं बन्धः ? आचार्या भणन्ति-बद्ध १ स्पृष्ट २ निकाचित ३ भेदैरात्मकर्मणोर्बन्धः, तत्रात्मप्रदेशैः सहामतन्तुबद्धसूचिकलापवद्वद्धं कर्म भवति, निकाचितं तु नापितकुट्टित-सूचिकलापवद्भवति, प्रथम हि जीवो रागद्वेषपरिणामैः कर्म बध्नाति, पश्चात्परिणामममुञ्चस्तत्कर्म स्पृष्टं करोति, तेनैवात्यन्तसंक्लिष्टपरिणामेन निकाचितं-निरुपक्रमं करोति, तद्धि उदयगतमेव वेद्यते, इति विझनामशिष्यकृतप्रश्नस्योत्तरं दुर्बलिकापुष्पाचार्यैः कृतम्, आसन्नोपाश्रयस्थेन गोष्ठामाहिल्लेन श्रुतम्, तत्रैव स्थितेन तेनोक्तमीदृक्षमस्माभिर्गुरोः समीपे न श्रुतम्, यद्येवं कर्म बद्धं स्पृष्टं निकाचितं स्यात्तदा मोक्षो न स्यात् । तदा विज्झनामशिष्यो वक्ति, कथं तर्हि कर्म बद्धं स्पृष्टं निकाचितं भवति ? स आह यथा कञ्चकः कञ्चकिशरीरं स्पृशति, तथा कर्मात्मप्रदेशान् स्पृशति, न पुनः क्षीर-नीरन्यायेन तत्कर्मात्मप्रदेशैः सह बद्ध-स्पृष्टनिकाचितत्वभावेन क्षीर-नीरवदेकीभावमापद्यते, तथात्वे हि कर्मव्युच्छेद एव न स्यादिति गोष्ठामाहिल्लवचः श्रुत्वा विझशिष्यः प्राह भो गोष्ठामाहिल्ल ! दुर्बल्लिकापुष्पाचार्याः पूर्वोक्तमेवादिशन्ति, गोष्ठामाहिल्लः प्राहेमं ते न जानन्ति, पुनर्विञ्झशिष्यः सूरीन् प्रश्नयति, सूरिभिरुक्तं गोष्ठामाहिल्ल-वचनमसत्यमेव, यथास्माभिरुक्तं तथैव श्रीगुरुभिरुक्तम्।।
तत्र दृष्टान्तः- यथाऽयःपिण्डे वह्निः सर्वात्मना सम्बध्यते वियुज्यते च, तथात्मप्रदेशैः सह कर्म सम्बध्यते वियुज्यते चेत्यादि दृष्टान्त-युक्त्यादिभिर्बद्ध-स्पृष्ट-निकाचितकर्मस्थापना कृता, परंगोष्ठामाहिल्लो न मन्यते । अन्यदा नवमे पूर्वे प्रत्याख्यानाधिकारं गुरवः साधूनामेवं पाठयन्ति - "साहणं जावज्जीवाए तिविहं तिविहेण पाणाइवायं पच्चक्खामि, एयं पच्चक्खाणं वन्निज्जइ," इत्याद्याचार्येणोक्ते गोष्ठामाहिल्लः प्राह- 'जावज्जीवाएत्ति' न वक्तव्यम्।
एवमुक्तप्रत्याख्यानस्य सावधिकत्वेन परलोकाशंसाभवनेन भङ्गसम्भवात्, प्रत्याख्यानं निरवधिकं कार्यम्, तथाहि - "सव्वं पाणाइवायं पच्चक्खामि, अपरिमाणाए तिविहं तिविहेणं," एवं प्रत्याख्यानं कार्यम्, गोष्ठामाहिल्लेनैवमुक्तं विज्झादिशिष्याः सूरीन् प्रश्नयन्ति, सूरयः प्राहुः प्रत्याख्यानस्य कालावधिकत्वमवश्यं कार्यम् । अन्यथा मर्यादापत्त्याऽकार्यत्वमेव स्यात्, परलोकाशंसासम्भवेन भङ्गो नैव स्यात्, जीवनहं सावा न सेविष्ये, मृतस्य त्ववश्यंभाविन्यविरतिरिति यथोक्तनिर्वाहित्वेन न प्रत्याख्यानभङ्गः। एवं श्रीदुर्बलिकापुष्पोक्तं सर्वैरप्यङ्गीकृतम्, अन्ये फल्गुरक्षितादयः स्थविरा एवमेव भणन्ति, गोष्ठामाहिल्लस्तु सर्वेऽप्येते न किञ्चज्जानन्तीति वदति । स्वोक्तमेव तीर्थङ्करोक्तमिति स्थापयति ।आचार्योक्तं स्थविरोक्तं च न मन्यते, तदा समस्तसङ्केन शासनदेव्याः कायोत्सर्गः कृतः, सा समागता भणति, किं देशयति सङ्घ ? सङ्ग्रेनोक्तं व्रज श्रीसीमन्धर-तीर्थङ्करपार्श्वे , एवं च पृच्छ यद्गोष्ठामाहिल्लो भणति तत्सत्यमुत यदुर्बलिकापुष्पादयो भणन्ति तत्सत्यं ?' मम पुनः कायोत्सर्गबलं ददत । सयेन पुनः कायोत्सर्गः कृतः, सा गता भगवत्समीपे, भगवान् पृष्टः सङ्घोक्तम्, भगवान् प्राह-दुर्बलिकापुष्पादयः सम्यग्वादिनः, गोष्ठामाहिल्लस्तु