SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीयमध्ययनम् ३] [७३ शिष्यत्रयं वर्तते, इतश्च मथुरायामक्रियावाद्युत्थितः, तत्र प्रतिवादी कोऽपि नास्तीति तत्रत्यसङ्घनार्यरक्षितसूरेापितम्, तैश्च तत्र गोष्ठामाहिलो वादलब्धिमानिति प्रेषितः, तेन तत्र गत्वा राजसभायां स पराजितः, मथुराश्राद्धैश्च गोष्ठामाहिलो वर्षाचतुर्मासकं रक्षितः, तावता दशपुरे श्रीआर्यरक्षितसूरिः स्वमरणमासन्नं ज्ञात्वा स्वपट्टस्थापनायामेवं चिन्तयति - "वुढो गणहरसद्दो गोअमाईहिं धीरपुरिसेहिं । जो तं ठवेइ, अपत्ते जाणंतो सो महापावो" ॥ १ ॥ एवं चिन्तयित्वा सर्वोऽपि सङ्घ आकारितः, तस्याने सूरिणोक्तमहं गोष्ठामाहिलं प्रति घृतघटसदृशो जातः, यथा घृतघटाद् घृतमपनीयते, तदा बहवो घृतबिन्दवस्तल्लग्नास्तिष्ठन्ति, तथा मया यदा गोष्ठामाहिलः पाठितस्तदा मया स्वकोष्ठे बहवो विद्यांशा रक्षिताः फल्गुरक्षितं प्रत्यहं तैलघटसदृशो जातः, यथा तैलघटात्तैलमपनीयते, तदा तत्र तैलबिन्दवः स्तोका एव तिष्ठन्ति, तथा मया यदा फल्गुरक्षितः पाठितस्तदास्य कोष्ठे मया घना विद्याः क्षिप्ताः, स्तोका एव रक्षिताः । दुर्बलिकापुष्पं प्रत्यहं निष्पावघटसदृशो जातः, यथा निष्पावघटान्निष्पावा अपनीयन्ते, तदा नैकोऽपि तत्र तिष्ठति, तथा यदा मया दुर्बलिकापुष्पः पाठितस्तदास्य कोष्ठे सर्वा विद्याः क्षिप्ताः, नैकापि विद्या रक्षितास्तीत्यार्यरक्षितसूरिणोक्ते सड्यः प्राह-भगवन् ! दुर्बलिकापुष्प एवाचार्यः क्रियताम्, तस्यैव सर्वविद्यास्पदत्वेन योग्यत्वात् । तदा सयवचः श्रुत्वार्यरक्षितसूरिभिः स्वपट्टे दुर्बलिकापुष्पसूरिः कृतः, उक्तं च दुर्बलिकापुष्पस्य गुरुणा, हे वत्स ! यथाहं फल्गुरक्षित-गोष्ठामाहिल्लादीनां लालनपालनविधौ प्रवृत्तस्तथा त्वयापि प्रवर्तितव्यम्, फल्गुरक्षितादीनामपि गुरुणोक्तम्, यथा भवन्तो मत्सेवाविधौ प्रवृत्तास्तथा दुर्बलिकापुष्पस्यापि प्रवर्तितव्यम्, अपि चाहं सेवाविधौ कृतेऽप्यकृतेऽपि न रोषं गतः, असौ तु न क्षमिष्यतीति सम्यक् प्रवर्तितव्यम् द्वयोरपि पक्षयोरेवमुक्त्वाऽनशनं कृत्वा श्रीआर्यरक्षितसूरिदेवलोकं गतः । गोष्ठामाहिल्लेन श्रुतं गुरोर्देवलोकगमनम्। त्वरितं तत्र समायातो जनान् पृच्छति को गणधरः स्थापितः ? जनैस्तु घृतघटादिदृष्टान्तप्रतिपादनपूर्वं दुर्बलिकापुष्पो गणधरः कृत इति प्रोक्तम् । गोष्ठामाहिल्लः पृथगुपाश्रये कियत्कालं स्थित्वा वस्त्रादि मुक्त्वा दुर्बलिकापुष्योपाश्रये समागतः सर्वैरपि साधुभिरस्याभ्युत्थानं कृतम्, आचार्येणालापिताः कथं पृथगुपाश्रये स्थिताः ? अत्रैव तिष्ठन्तु, किन्तु स नेच्छति, आचार्योपाश्रयान्निर्गत्य स्वोपाश्रये गतः।। - अथगोष्ठामाहिल्लो पृथक् स्थितो जनान् व्युद्ग्राहयति, परंन कोऽपि तद्वचः प्रतिपद्यते । अन्यदा दुर्बलिकापुष्पसूरयोऽर्थपौरुषीं कुर्वन्ति, सर्वे साधवः श्रृण्वन्ति ।साधुभिराकारितोऽपि गोष्ठामाहिल्लस्तत्र नायाति, न श्रृणोति च । यूयमेव निष्पावघटसमीपेऽर्थपौरुषीं कुरुत, अर्थपौरुषीं कृत्वाचार्येषुत्थितेषु विज्झनाम शिष्योऽनुभाषते । १ "व्यूढो गणधरशब्दो, गौतमादिभिर्धारपुरुषैः । यस्तं स्थापयति अपात्रे जानन् स महापापी ॥१॥" २ वाल १०
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy