SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७२] [ उत्तराध्ययनसूत्रे परिव्राजकेनोक्तमहं राशिद्वयमङ्गीकुर्वे, जीवराशिरजीवराशिश्च पुण्यराशिः पापराशिश्चेत्यादि, बुद्धिमता रोहगुप्तेन तदानीं जीवोऽजीवो नोजीवश्चेति राशित्रयमुक्तम्, जीवास्त्रसादयः, अजीवा घटादयः, नोजीवा गृहकोकिला छिन्नपुच्छाऽस्ति, यथा ह्येकस्य दण्डस्यादिर्मध्यमग्रं चेति प्रकारत्रयम् । एवं सर्वत्रेत्यादिवचोभिः स परिव्राजको निर्लोठितो रोहगुप्तस्याभिमुखं वृश्चिकान् मुमोच, रोहगुप्तस्तु मयूरानमुचत्, मयूरैस्तु ते सर्वे भक्षिताः । ततः परिव्राजकः सर्पानमुञ्चत्, रोहगुप्तस्तु नकुलान् मुमोच नकुलैस्तु निर्नाशिताः सर्पाः । ततः स परिव्राजक उन्दरान् मुमोच, रोहगुप्तस्तु मार्जारान् मुमोच, माजारैस्तु ते भक्षिताः । ततः परिव्राजकेन मृगा मुक्ताः, रोहगुप्तेन तु व्याघ्रा मुक्ताः व्याघ्रैर्मृगा भक्षिताः । ततः परिव्राजकेन शूकरा मुक्ता: रोहगुप्तेन तु सिंहा मुक्ताः सिंहैः शूकरा भक्षिताः । एवं परिव्राजकेन ये ये जीवा मुक्तास्तत्प्रतिमल्ला रोहगुप्तेन मुक्तास्तैश्च ते विनाशिताः । अथात्यन्तखिन्नेन परिव्राजकेन गर्दभी मुक्ता, रोहगुप्तेन सा रजोहरणेन हता परिव्राजकस्यैवोपरि विष्टां कृत्वा गता । ततः स परिव्राजको राजादिभिर्हीलितो राजद्वाराद्गले गृहीत्वा बहिष्कृतः । अथ रोहगुप्तः परिव्राजकं जित्वा गुरुसमीपे समागतः सर्वं वादस्वरूपं जगौ । गुरुणोक्तं वरं कृतम्, परं त्वया साम्प्रतं राजसभायां गत्वा राशित्रयस्थापनाविषयं मिथ्या - दुष्कृतं देयम्, जिनशासने राशिद्वयस्यैव व्यवस्थापनात्, रोहगुप्तोऽवदन्मया तादृशायां राजसभायां गत्वा मिथ्यादुष्कृतं दत्वा स्ववचनमप्रमाणीं कर्तुमशक्यम् । गुरुणोक्तं नात्र त्रपा कार्या, अवश्यं तत्र गत्वा मिथ्यादुष्कृतं देहि, एवं वारंवारं गुरुणाऽयमुक्तः खिन्नः प्रकामं धृष्टो भूत्वावददाशित्रयमेवास्ति, नात्र कश्चिद्दोषः । ततो गुरुशिष्ययोरेव वादो लग्नः, आचार्या राजद्वारं गताः, शिष्येण समं वादं कर्तुमारेभिरे, वादं कुर्वतोस्तयोः षण्मासा गताः । राज्ञोक्तं मम राजकार्यं सीदति, भवतां वादसमाप्तिर्न जाता, ततो यान्तु स्वस्थाने भवन्तः । गुरुभिरुक्तम्, कल्यदिवसे वादनिर्णयं करिष्यामि । ततः प्रभाते राजादिजनपरिवृता गुरवः कुत्रिकापणे समागताः, तद्धनिकं जगुर्देहि जीवानिति गुरुभिरुक्ते तेन कुमार-कुमारी - हस्त्यश्वाद्यनेके जीवा दर्शिताः, देह्यजीवानिति गुरुभिरुक्ते तेन घटपटादयोऽर्था दर्शिताः, देहिनोजीवानिति गुरुभिरुक्ते कुत्रिकापणधनिकः प्राह न सन्ति लोकत्रये नोजीवाः, यल्लोकत्रये भवति तदेव कुत्रिकापणे भवति नान्यत् । एवं चतुश्चत्वारिंशच्छतप्रश्नकरणेन निर्लोठितो रोहगुप्तो निर्विषयीकृतः, स गणान्निह्नव इति कृत्वा निष्कासित:, तेन वैशेषिकमतं प्रकटीकृतम्, षट् पदार्थास्तेनैव प्ररूपिताः, इति ''छलूओ' स पठ्यते । इति षष्ठनिह्नवकथा । ( ६ ) अथ सप्तमनिह्नवकथा - यथा - वीरात्पञ्चशतचतुरशीतिवर्षेषु [ ५८४ ] गतेषु दशपुरे ईक्षुगृहोद्याने आर्यरक्षितसूरिः समायातः, तस्य गोष्ठामाहिल: १, फल्गुरक्षित: २, दुर्बलिकापुष्पश्चेति ३ १ षट्लूक ।
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy