________________
चतुरङ्गीयमध्ययनम् ३]
[७१ गतः, तत्र शौल्किकैः श्रावकैः तं कुट्टयितुमारेभे । स प्राह यूयं श्राद्धाः वयं साधवः कथं कुट्यते ? श्रावका ऊचुर्भवन्मतेन वयं श्राद्धा भवद्भिदृष्टास्ते विनष्टाः, वयं तु नवीना एवोत्पन्नाः, ये भवन्तो यतयः पूर्वमस्माभिदृष्टास्ते विनष्टाः, यूयं तु नवीना एव क्षणक्षयवादित्वाद्भवन्मतस्येति तैः श्रावकैः स शिक्षितः प्रतिबुद्धः । इति चतुर्थनिह्नवोदाहरणम् । (४)
अथ पञ्चमनिह्नवोदाहरणम् _____ वीराद् द्विशताष्टाविंशतिवर्षेषु [ २२८ ] गतेषु उल्लकानदीतीरे एकस्मिन् खेटवनपुरे उल्लकातीताभिधानं वनमस्ति, तत्र महागिरिशिष्यो धनगुप्त उल्लकातीतपरत्रतीरे तिष्ठति, तस्य शिष्यो गङ्गाचार्यः पूर्वतीरे तिष्ठति, स स्वगुरुवन्दनार्थं परत्र तीरे जिगमिषुर्नद्यामुत्तरन् खल्वाटमस्तकत्वेनाधः शीतमुपरिचातप इति क्रियाद्वयं युगपदेवानुभवन् 'जुगवं दो नत्थि उवओगा' इति भगद्वचनमन्यथा मन्यमानो निह्नवो जातः, आचार्यैर्बहुयुक्तिभिर्बोधितोऽपि न मन्यते ।
एकदा स राजगृहे वीरप्रभोद्याने मणिनायकस्य यक्षभवने उत्तीर्णः, तत्र व्याख्यानाऽऽगतलोकानां पुरः क्रियाद्वयस्य युगपदनुभवो भवतीति स्वमतं प्ररूपयन् यक्षेण मद्रमत्पाट्य कोपं च दर्शयित्वा तर्जितोऽरे! मयात्रैव समवसतवीरमखात श्रतं यत्क्रियाद्वयस्यानुभवो युगपन्न भवति, समयसूक्ष्मत्वेन युगपदनुभवाभिमानो भ्रम एवेति, त्वं किं वीरादप्यधिक एवेति यक्षेणैव स प्रतिबोधितः । इति पञ्चमनिह्नवकथा ।(५)
अथ षष्ठ निह्नवोदाहरणं कथ्यते
वीरात्पञ्चशतचतुश्चत्वारिंशद्वर्षेषु [५४४] गतेष्वंत-रञ्जिकापुर्यां भूतगृहं चैत्यम् तत्र श्रीगुप्तनामाचार्याः समवसृताः, तद्वन्दनार्थं प्रत्यासन्नाद् ग्रामाद्रोहगुप्तः शिष्यः समायातः, स एकमुदरबद्धलोहपढें जम्बूवृक्ष-शाखाकरं च परिव्राजकं दृष्ट्वा पप्रच्छ किमिदमिति ? स प्राह ज्ञानेन ममोदरं स्फुटति, तेनात्र लोहपट्टो बद्धोऽस्ति, जम्बूद्वीपे च मत्तुल्यः कोऽपि नास्तीति जम्बूशाखा करे बद्धाऽस्तीति, परिव्राजकेन तदानीमेव पटहो वादितो नास्ति विश्वे कश्चिद्यो मया सह वादं करोतीति, रोहगुप्तेन कथितोऽहं वादं करिष्यामीति वदता पटहो वारितः । स परिव्राजकस्ततो राजद्वारे गतः, रोहगुप्तस्तु गुरुसमीपे समायातः, पटहक्षोभकरणवृत्तान्तः कथितः, गुरव ऊचुर्वरं न कृतम्, स विविधविद्या-बलवान्, यदि त्वं स्याद्वादयुक्तिभिस्तं वादे पराजेष्यसि, तदासौ कुविद्याभिस्तवोपद्रवं करिष्यति । रोहगुप्तः प्राह-गुरुभिस्तथा मम प्रसादः कार्यों यथा मम वादे जयः स्यादुपद्रवश्च क्षयः स्यात् । गुरुभिस्तस्य मयूरी-नकुलीप्रमुखा विद्या दत्ताः, रजोहरणं चाभिमन्त्रय दत्तम्, यदेमाभिविद्याभिस्तव तस्य पराभवो न तिष्ठति, तदा तत्कुविद्याभिमुखमिदं रजोहरणं भ्रामणीयम्, गुरुं वन्दित्वा स राजसभायां गतः, तत्र मिलितौ वादि-प्रतिवादिनौ, रोहगुप्तेनोक्तं वराकोऽयं परिव्राजकः किं जानाति ? पूर्वपक्षो मयास्यैव दत्तः, यथेष्टमसौ मे प्रश्नयतु, परिव्राजकेन चिन्तितमसौ पूर्णविद्यावान् मया केनापि प्रकारेण जेतुमशक्यस्ततोऽस्यैव सिद्धान्तपक्षमहं गृह्णामि, न ह्यसौ स्वसिद्धान्तपक्षमुत्थापयिष्यतीति । ममैव जयो भविष्यतीति विचिन्त्य