SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७०] [उत्तराध्ययनसूत्रे इणढे समढे, एवं दो जीवपएसे तिन्नि संखिज्जा असंखिज्जा वा, तम्हा किसणे पडिपुन्ने लोगागासपएस तुल्लपएसे जीवेत्ति वत्तवं सिआ," इत्यादि। अत्र स विप्रतिपन्नः, यदि सर्वे जीवप्रदेशा एकप्रदेशहीना जीवव्यपदेशं न लभन्ते, स चैकैकः सर्वान्तिमो जीव इति वक्तव्यः स्यात्तद्भावनाभावितत्वात्, इति तस्यान्तप्रदेशे जीवभ्रान्तिः। ततः स आमलकप्पानगर्यां गतः, तत्र मित्रश्रीनाम्ना श्रावकेण स्वगृहे निमन्त्रितः, लड्डुकान्तिमप्रदेश एकः, सेवनिकाखाद्यान्तिमप्रदेश एक एव, भृतहिण्डिकामध्यादेक एव कूरादिकणम्, भृतघृतपात्रमध्यादेक एव बिन्दुः, एवं सर्ववस्तुसम्बन्ध्येकैकप्रदेशो दत्तः, पुनः श्राद्धेनोक्तं भगवन् यूयं प्रतिलाभिताः, वयं कृतार्थाः कृताः, तेनोक्तं भोः श्राद्ध ! किं त्वया दत्तम् ? श्राद्धेनोक्तं तव सिद्धान्तानुसारेण मया पूर्ण दत्तम्, अन्तिमेऽवयवे दत्ते पूर्णोऽवयवी दत्तः, अन्तिमे प्रदेशे यथा जीवस्तथा सर्वोऽवयवी अन्त्यावासे वक्तव्य इति वीरसिद्धान्तानुसारेण न किञ्चिन्मया दत्तमस्तीत्यादियुक्तिभिर्मित्रश्रीश्राद्धेन स प्रबोधितः । इति श्री द्वितीयनिह्नवतिष्यगुप्तोदाहरणम् । (२) एतौ द्वौ निह्नवौ श्रीवीरे जीवत्येवाभूताम् । अथ तृतीयनिह्नवोदाहरणं कथ्यते - __ श्रीवीरनिर्वाणात् २१४ वर्षेषु गतेषु श्वेताम्बिकायां पोलासोद्याने आषाढाचार्याः स्वशिष्यानागाढयोगानुद्वाहयन्तो हृदयशूलेन रात्रावकस्मान्मृताः स्वर्ग जग्मुः । तत्रोपयोगे दत्ते स्नेहात्स्वदेहमधिष्ठाय शिष्याणामागाढयोगक्रियाः पूर्णाश्चकुः, अन्यं च नवीनमाचार्य संस्थाप्य सर्वेषां स्ववृत्तान्तं निवेद्य स्वस्थानं ययुः, तच्छिष्यास्तत्स्वरूपं दृष्ट्वाऽव्यक्तमतं प्रतिपन्नाः, न ज्ञायते को देवः ? कः श्रमण ? इति चिन्तयन्ति वदन्ति च, न कोऽपि किञ्चिद्वन्दते, सर्वोऽपि व्यवहारस्तैलृप्तः । एकदा ते सर्वेऽपि राजगृहंगताः, तत्र परमश्रावकेण 'मौर्यवंशोत्पन्नेन बलभदनृपेण तत्प्रतिबोधाय चौरा एते इति कृत्वा धृताः, यष्ठिमुष्ठ्यादिभिर्मारिताः, ते कथयन्ति, भो महाराज ! त्वं श्रमणोपासकः, वयं श्रमणाः, कस्मादस्माकमनर्थं कारयसि ? राज्ञोक्तमेवं मा वदन्तु, युष्माकमव्यक्तं मतम् तदनुसारेण न विद्मो वयं यद्भवन्तः श्रमणा भवन्मतापेक्षया वयं न श्रमणोपासकाः, इत्यादि वाग्युक्तिभिः ते प्रतिबुद्धाः । इति तृतीयनिह्नवाव्यक्तमतसाधूदाहरणम् । (३) अथ चतुर्थनिह्नवोदाहरणं यथा - ____ वीरात् २२० वर्षेषु गतेषु मिथिलाया: लक्ष्मीगृहोद्याने महागिरिशिष्यः कोडिन्यनामास्ति, तस्यापि शिष्योऽश्वमित्रः, अन्यदाऽनुप्रवादपूर्वस्य नैपुणिकनामकं वस्तु पठन्निदमालापकं पठितवान्, यथा "सव्वे पडुपन्ननेरइया वुच्छिज्जिस्संति, एवं जाव वेमाणियंति ।" एतदालापकार्थमसावित्थं विचारितवान्-सर्वे नैरयिका देवाश्च यदि व्युच्छेदं प्राप्स्यन्तीत्यत्र रहस्यमुक्तम्, तदावश्यं सर्वनैरयिकादयःक्षणविनश्वराः सन्तीति क्षणक्षयवादं प्ररूपयन्नसावेकदा राजगृहे १ सूर्यवंशो मु०१॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy