SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीयमध्ययनम् ३] [६९ एवं तैः शिष्यैरुक्तोऽपि तन्न प्रतिपद्यते, स्ववाक्कदाग्रहं न मुञ्चति जमालिः, तदा ते मुक्त्वा जमालिं श्रीमहावीरं प्रतिपन्नाः, शनैः शनैरपरेऽपि महावीरं प्रतिपन्नाः, सहस्रसाध्वीपरिखता प्रियदर्शना जमालिवाक्यं सत्यं मन्यमाना पृथिव्यां विचरति । एकदा सा ढङ्ककुम्भकारशालायामुत्तीर्णा, ढङ्केन तस्याः प्रतिबोधनाय वस्त्रान्तेऽङ्गारः क्षिप्तस्तया च दह्यमानं स्ववस्त्रं दृष्ट्वा दग्धं मम वस्त्रमिति प्रोक्तम् । कुम्भकारेणोक्तं हे साध्वि ! भवन्मते 'डज्झमाणं डड्डे' इति नोच्यते, तत्कथमिदं प्रोक्तं भवत्या ? इत्यादि कुम्भकारयुक्तिभिः सा प्रतिबुद्धा जमालि प्रति वीरवाक्यसत्यतायुक्तीराख्यत्, जमालिस्तु नैव प्रतिपद्यते, तया सहस्रसाध्वी-परिवृतया जमालिर्मुक्तः, श्रीवीरः प्रतिपन्नः। एकदा श्रीवीरश्चम्पानगर्यां समवसृतः, जमालिस्तत्समवसरणे समागतः श्रीमहावीर प्रत्याह-'हे भगवंस्तव शिष्याश्छद्मस्था एव विपत्स्यन्ते, अहं तु केवली जातः ।' अथ तं गौतमः प्राह-हे जमाले ! यदि त्वं केवल्यसि तदा त्वं मत्प्रश्नद्वयव्याख्यानं कुरु? केवलिनां हि ज्ञानदर्शने न क्वचित्स्खलतः, प्रश्नद्वयं चेदम् लोकः शाश्वतो वाऽशाश्वतो वा ? जीवः शाश्वतो वाऽशाश्वतो वा ? इति गौतमेन पृष्टे जमालिौनभागेव स्थित : । तदानीं श्रीमहावीरः प्राह हे जमाले ! सन्ति मम शिष्या एके केचिद्ये प्रश्नद्वयमिदं व्याख्यान्ति, तथाहि-हे जमालेऽयं लोकः पूर्वं नाभूत्, अग्रे न भविष्यति, सांप्रतं नास्तीति वक्तुं न शक्यते, तस्मादयं लोकस्त्रिकालस्थायित्वेन शाश्वतः, उत्सर्पिणीविषयो भूत्वावसर्पिणीविषयो भवति, इत्यादिपर्यायैरशाश्वत इति, जीवोऽपि त्रिकालविषयित्वेन शाश्वतः, देवत्व-मनुष्यत्व-पर्यायैरशाश्वत इति । एवमाख्यातं भगवतो वाक्यं जमालिन श्रद्दधे ततो निष्क्रान्तः, स आत्मानं परांश्च व्युभ्रामयन् बहून् वर्षान् यावत् श्रामण्यपर्यायं पालयित्वा बहुभिः षष्ठाऽष्टमादिभिरात्मानं भावयित्वाऽर्धमासिक्या संलेखनयाऽनशनमाराध्य 'कडेमाणे कडेत्ति' उत्सूत्रमनालोच्य कालमासे कालं कृत्वा लान्तककल्पे त्रयोदशसागरोपमस्थित्या किल्बिषदेवत्वेनोत्पन्नः, तदुत्सूत्रप्ररूपणेन चानन्तं संसारं समुपार्जितवान् । यदुक्तं भगवत्याम् - चत्तारि पंचतिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारमणुपरियट्टित्ता । तओ पच्छा सिज्झिस्सइ, बुज्झिस्सइ, सव्वदुक्खाणमंतं च करिस्सइ ॥ ......- . [९/३३ सू. ३९० ] इति प्रथम निह्नवजमाल्युदाहरणम् ।(१) अथ द्वितीयनिह्नवोदाहरणं कथ्यते - - राजगृहे नगरे गुणशिलके चैत्ये चतुर्दश-पूर्वपाठी वसुनामाचार्यः समवसृतः, तच्छिष्यस्तिष्यगुप्तोऽस्ति । सोऽन्यदा सर्वात्मप्रवाद - पूर्वस्येदमालापकं पठति, यथा - _ "एगे भंते जीवप्पएसे जीवेत्ति वत्तव्वं सिया, णो इणढे समढे, एवं दो जीवप्पएसे, तिन्नि, संखिज्जा, असंखिज्जा वा, जाव एगपएसेण वि अणंतो जीवत्ति वत्तव्वं सिया, णो
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy