________________
चतुरङ्गीयमध्ययनम् ३]
[६९ एवं तैः शिष्यैरुक्तोऽपि तन्न प्रतिपद्यते, स्ववाक्कदाग्रहं न मुञ्चति जमालिः, तदा ते मुक्त्वा जमालिं श्रीमहावीरं प्रतिपन्नाः, शनैः शनैरपरेऽपि महावीरं प्रतिपन्नाः, सहस्रसाध्वीपरिखता प्रियदर्शना जमालिवाक्यं सत्यं मन्यमाना पृथिव्यां विचरति । एकदा सा ढङ्ककुम्भकारशालायामुत्तीर्णा, ढङ्केन तस्याः प्रतिबोधनाय वस्त्रान्तेऽङ्गारः क्षिप्तस्तया च दह्यमानं स्ववस्त्रं दृष्ट्वा दग्धं मम वस्त्रमिति प्रोक्तम् ।
कुम्भकारेणोक्तं हे साध्वि ! भवन्मते 'डज्झमाणं डड्डे' इति नोच्यते, तत्कथमिदं प्रोक्तं भवत्या ? इत्यादि कुम्भकारयुक्तिभिः सा प्रतिबुद्धा जमालि प्रति वीरवाक्यसत्यतायुक्तीराख्यत्, जमालिस्तु नैव प्रतिपद्यते, तया सहस्रसाध्वी-परिवृतया जमालिर्मुक्तः, श्रीवीरः प्रतिपन्नः।
एकदा श्रीवीरश्चम्पानगर्यां समवसृतः, जमालिस्तत्समवसरणे समागतः श्रीमहावीर प्रत्याह-'हे भगवंस्तव शिष्याश्छद्मस्था एव विपत्स्यन्ते, अहं तु केवली जातः ।' अथ तं गौतमः प्राह-हे जमाले ! यदि त्वं केवल्यसि तदा त्वं मत्प्रश्नद्वयव्याख्यानं कुरु? केवलिनां हि ज्ञानदर्शने न क्वचित्स्खलतः, प्रश्नद्वयं चेदम्
लोकः शाश्वतो वाऽशाश्वतो वा ? जीवः शाश्वतो वाऽशाश्वतो वा ? इति गौतमेन पृष्टे जमालिौनभागेव स्थित : । तदानीं श्रीमहावीरः प्राह हे जमाले ! सन्ति मम शिष्या एके केचिद्ये प्रश्नद्वयमिदं व्याख्यान्ति, तथाहि-हे जमालेऽयं लोकः पूर्वं नाभूत्, अग्रे न भविष्यति, सांप्रतं नास्तीति वक्तुं न शक्यते, तस्मादयं लोकस्त्रिकालस्थायित्वेन शाश्वतः, उत्सर्पिणीविषयो भूत्वावसर्पिणीविषयो भवति, इत्यादिपर्यायैरशाश्वत इति, जीवोऽपि त्रिकालविषयित्वेन शाश्वतः, देवत्व-मनुष्यत्व-पर्यायैरशाश्वत इति । एवमाख्यातं भगवतो वाक्यं जमालिन श्रद्दधे ततो निष्क्रान्तः, स आत्मानं परांश्च व्युभ्रामयन् बहून् वर्षान् यावत् श्रामण्यपर्यायं पालयित्वा बहुभिः षष्ठाऽष्टमादिभिरात्मानं भावयित्वाऽर्धमासिक्या संलेखनयाऽनशनमाराध्य 'कडेमाणे कडेत्ति' उत्सूत्रमनालोच्य कालमासे कालं कृत्वा लान्तककल्पे त्रयोदशसागरोपमस्थित्या किल्बिषदेवत्वेनोत्पन्नः, तदुत्सूत्रप्ररूपणेन चानन्तं संसारं समुपार्जितवान् । यदुक्तं भगवत्याम् -
चत्तारि पंचतिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारमणुपरियट्टित्ता । तओ पच्छा सिज्झिस्सइ, बुज्झिस्सइ, सव्वदुक्खाणमंतं च करिस्सइ ॥
......- . [९/३३ सू. ३९० ] इति प्रथम निह्नवजमाल्युदाहरणम् ।(१)
अथ द्वितीयनिह्नवोदाहरणं कथ्यते - - राजगृहे नगरे गुणशिलके चैत्ये चतुर्दश-पूर्वपाठी वसुनामाचार्यः समवसृतः, तच्छिष्यस्तिष्यगुप्तोऽस्ति । सोऽन्यदा सर्वात्मप्रवाद - पूर्वस्येदमालापकं पठति, यथा -
_ "एगे भंते जीवप्पएसे जीवेत्ति वत्तव्वं सिया, णो इणढे समढे, एवं दो जीवप्पएसे, तिन्नि, संखिज्जा, असंखिज्जा वा, जाव एगपएसेण वि अणंतो जीवत्ति वत्तव्वं सिया, णो