________________
६८ ]
[ उत्तराध्ययनसूत्रे
मानुष्यं विग्रहं लब्ध्वा-मानुष्यं शरीरं प्राप्य तस्य धर्मस्य श्रुतिर्दुर्लभा, धर्मश्रवणं दुष्प्राप्यमित्यर्थः, यं धर्मं श्रुत्वा जीवास्तप उपवासादिकं क्षान्ति क्षमामहिंस्रतां - सदयत्वं प्रतिपद्यन्तेऽङ्गीकुर्वन्ति, यस्य धर्मस्य श्रवणाज्जीवास्तपस्विनो भवन्ति, क्षमावन्तो भवन्ति, दयालवश्च भवन्तीत्युक्तेन बौद्धादीनां धर्मनिषेधः कृतः ॥ ८ ॥
आहच्च सवणं लद्धुं, सद्धा परमदुल्लहा ।
सुच्चा नेयाउअं मग्गं, बहवे परिभस्सई ॥ ९ ॥
'आहच्चेति' कदाचित् श्रवणं-धर्मश्रवणं लब्धं प्राप्तम्, तदा धर्मश्रवणं लब्ध्वापि श्रद्धा - धर्मे रुचिः परमदुर्लभात्यन्तदुष्प्राप्या, श्रद्धाया दुर्लभे हेतुमाह-बहवो मनुष्या नैयायिकम्, न्यायमार्ग जैनमार्गं श्रुत्वा परिभ्रस्यन्ति, न्यायमार्गात्स्खलन्ते, न्याये पञ्चसमवायकारणे भवं नैयायिकम्, पञ्चसमवायकारणवादकं जैनं दर्शनम् ॥ ९ ॥
अत्र निह्नवानां दृष्टान्ताः, तत्र प्रथमनिह्नवोदाहरणं
यथा - कुण्डलपुरे श्रीवीरस्वसा सुदर्शना तस्याः पुत्रो जमालिः, वीरपुत्री प्रियदर्शना तस्य पत्नी, तया सह जमालिवीरपादान्ते दीक्षां जग्राह, जमालिना सह पञ्चशतक्षत्रियाः प्रव्रज्यां जगृहुः, प्रियदर्शनया सह सहस्त्रस्त्रियः प्रव्रज्यां जगृहुः, स्वामिना स्थविराणामर्पितः, स्थिविरैश्चास्यैकादशाङ्गान्यध्यापितानि, अर्पितश्च पञ्चशतसाधु-सहस्त्रसाध्वीपरिवारः । अथ जमालिर्भगवताऽनुज्ञातः क्रमेण विहारं कुर्वन् श्रावस्तिं गतः, तिन्दुकोद्याने कोष्टकचैत्ये समवसृतः अन्तप्रान्ताहारैस्तत्र तस्योत्पन्नो रोग:, तेन न शक्नोत्युपविष्टुम्, वदति च जमालिः शिष्यान् प्रति मदर्थं संस्तारकं कुरुत, शिष्येण संस्तारकः कर्तुमारब्धः, उपविष्टुमशक्नुवता जालना भणितम् - हे शिष्य ! कृतः संस्तारकः ? तेनोक्तं न कृतः, किन्तु क्रियमाणोस्ति ।
ततस्तेन चिन्तितं यद्भगवान् महावीर आख्याति क्रियमाणं कृतमिति तन्मिथ्या प्रत्यक्षमिदं दृश्यते, क्रियमाणेऽपि संस्तारके कार्त्स्न्येनाऽनिष्पत्त्या कृतत्वाभावात्, एवं स्वमनसि विचार्य सर्वान् स्वशिष्यानाकार्यैवमाचष्टे भो शिष्या ! यद्भगवानेवमाचष्टे 'किज्जमाणे कडे, चलमाणे चलिए, उदीरिज्जमाणे उदीरिए ' [ ] इत्यादि, तत्सर्वं मिथ्या । क्रियमाणेऽपि संस्तारके शयनरूपार्थसाधकत्वाभावेन कृतत्वाभावादिति जमालिना प्रोक्ते सति केचिन्निर्ग्रन्था एनमर्थं श्रद्दधति केचिन्न श्रद्दधते, ये च श्रद्दधति ते जमालिमेवोपसम्पद्य विचरन्ति ।
ये च न श्रद्दधति त एवमाहुर्हे जमाले ! श्रीमन्महावीरस्यायमाशयः- यत्क्रियमाणं स्यात्तदेव कृतं भवति, क्रियमाणत्वपर्यार्याविशिष्टकृतत्वम्, क्रियमाणत्व-कृतत्वपर्यायाभ्यां पूर्वोतरावस्थाभ्यामेकस्मिन्नेवार्थे सम्भवति, न तु तयोः पृथक्पदार्थान्तरसंक्रमो भवति वीरवाक्यसत्यतास्तीति प्रतिपद्यस्व । ' कडेमाणे कडे, चलिज्जमाणे चलिए' इत्यादि ।
१ ‘जन्नं समणे भगवं महावीरे एवं आइक्खड़ जाव एवं परूवेइ-एवं खलु चलमाणे चलिए उदीरिज्जमाणे उदीरिए जाव निज्जरिज्जमाणे णिज्जिन्ने तं णं मिच्छा... ' इति
भगवत्यां - ९ / ३३ सू. ३८६ ॥