________________
चतुरङ्गीयमध्ययनम् ३]
[६७ एगया खत्तिओ होइ, तओ चंडाल बोक्सो ।
तओ कीडपयंगो य, तओ कुंथु पिवीलिआ ॥४॥ जीव एकदा क्षत्रियो भवति, ततोऽनन्तरं स जीवश्चाण्डालो भवति, ततश्च बोक्कसोऽपि जीवो भवति, यस्य शूदः पिता भवति माता च ब्राह्मणी भवति, तत्पुत्रो बोक्कस उच्यते, ततस्तत्र जातौ धर्मस्य दुर्लभत्वात्कीटो भवति, च पुनः पतङ्गो भवति, ततश्च कुन्थुर्भवति, पिपीलिका-कीटिका भवति, ग्रन्थान्तरे एतेऽपि जातिकुलभेदा उक्ताः सन्ति, यस्य ब्राह्मणः पिता शूदी माता भवति स निषाद उच्यते, यस्य ब्राह्मणः पिता वैश्या माता भवति स चाम्बोष्ट उच्यते, यस्य च निषादः पिताम्बुष्टा च माता भवति स बोक्कस इत्युच्यते ॥४॥
एवमावट्टजोणीसु, पाणिणो कम्मकिदिवसा ।
न निव्विज्जंति संसारे, सव्वद्वेसु व खत्तिया ॥५॥ प्राणिनो-जीवाः संसारे, एवममुना प्रकारेणावर्तयोनिषु न निर्विजन्ते-नोद्विजन्तेनोद्विग्ना भवन्ति, आवर्तेन-पुनः पुनः परिभ्रमणेन स्पृष्टा योनय आवर्तयोनयस्तेषु चतुरशीतिलक्षप्रकारेषु, कीदृशाः प्राणिनः ? कर्मकिल्बिषाः, कर्मभिः किल्बिषा मलिना अधमा वा, केषु के इवनोद्विजन्ते? सर्वार्थेषु क्षत्रियाइव, सर्वे च तेऽर्थाश्च सर्वार्थास्तेषु धन-कनकभूमि-वनिता-गजा-ऽश्वादि-पदार्थेषु क्षत्रिया राजान इव, तथा प्राणिनोऽपीत्यर्थः ॥५॥
कम्मसंगेहि संमूढा, दुक्खिया बहुवेयणा ।
अमाणुसासु जोणीसु, विणिहम्मति पाणिणो ॥ ६ ॥ प्राणिनो-जीवा अमानुषीषु योनिषु-मनुष्यवर्जितयोनिषु 'विणिहम्मंति' विशेषेण निहन्यन्ते-विशेषेण निपात्यन्ते, अर्थादेकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियेषु वारंवारमुत्पद्यन्त इत्यर्थः, कीदृशाः प्राणिनः ? कर्मसकैः-कर्मसंयोगैः संमूढाः- संव्याप्ताः, पुनः कीदृशाः ? दुःखिताः, पुनः कीदृशाः ? बहुवेदनाः ॥ ६ ॥
कम्माणं तु पहाणीए, आणुपुव्वी कयाइ ओ।
जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥७॥ तु पुनर्जीवाः शोधिं दुष्टकर्मनाशस्वरूपां लघुकर्मतामनुप्राप्ताः सन्तो मनुष्यत्वमाददते -नृजन्म प्राप्नुवन्तीत्यर्थः, कयानुपूर्व्या-अनुक्रमेणशनैः शनैः कदाचित्कर्मणां मनुष्यगतिविघ्नकराणां प्रकर्षेण हानिः प्रहानिस्तया प्रहाण्या-प्रकर्षेण हीनतया ॥७॥
माणुस्सं विग्गहं लद्धा, सुई धम्मस्स दुल्लहा । जं सुच्चा पडिवज्जंति, तव खंतिमहिंसयं ॥८॥