________________
६६ ]
[ उत्तराध्ययनसूत्रे मन्त्रिणोक्तं राजन् .! कथं खेदो विधीयते ? मत्पुत्रीजातस्त्वत्पुत्रो वर्तते, सोऽवश्यं राधावेधं साधयिष्यतीति प्रोच्य राज्ञः पुरः स पुत्र आनीतः, वहिकालिखितं साभिज्ञानम्; तद्दिनवर्णा दर्शिताः, तेन पुत्रेण स्वपितरं राजानं प्रणम्य राधावेधस्थानेऽधस्तैलभृतकटाहिकासङ्क्रान्तोर्ध्वभ्रमच्चक्रारपुत्रिकामध्यस्थित पूत्रिकानिवेशितदृष्टिरधोवदनेनोदर्ध्वबाहुनोर्ध्वस्था पुत्तलिकैकेनैव बाणेन विद्धा, साधितो राधावेधः, कन्या च परिणीता, पितुः परमो हर्षो बभूव । २२ पुत्राणां महाविषादः समभूत् । अथ यथा राधावेध-चक्रं दुर्भेद्यम्, तथा मनुष्यत्वमपि दुष्प्राप्यमिति । (७)
'चम्मेत्ति' कच्छपस्तदुदाहरणं यथा-एको द्रहः सहस्रयोजनप्रमाणः सर्वत्र शैवालव्याप्तः, क्वापि स्थाने एकं छिद्रं कच्छपग्रीवाप्रमाणम्, एकेन कच्छपेन ग्रीवा प्रसारिता, दृष्टं सचन्दनक्षत्रचक्रम्, दृष्ट्वा स स्वकुटुम्बाकारणाय मध्ये प्रविष्टः, स्वकुटुम्ब - सहित इतस्ततस्तच्छिद्रं गवेषयति, परं न पश्यति, यथा तस्य तच्छिद्रं दुष्प्राप्यम्, तथा मनुष्यत्वमपि दुष्प्रापमिति । (८)
'जुगेत्ति' युगसमिलादृष्टान्तस्तथाहि - केनचिद्देवेन युगं समुदस्य पूर्वान्ते मुक्तम्, तच्छिद्रान्निष्कास्य समिला समुद्रस्य पश्चिमान्ते मुक्ता, सा समिला सागरसलिलेनेतस्ततः प्रेर्यमाणा कदाचिद्दैवयोगेन पुनस्तच्छिदं प्रविशेन्न पुनर्मनुष्यजन्म लभेतेति । ( ९ )
'परमाणुत्ति' केनचिद्देवेन कश्चित्स्तम्भश्चूर्णीकृतः, तस्य परमाणवो नलिकायां भृताः, सा नलिका तेनैव देवेन मेरुमारुह्य फूत्कृता, उड्डीताश्चेतस्ततस्तत्परमाणवः, तानेकत्र संमील्य पुनस्तत्स्तम्भस्य करणं यथा दुष्करम्, तथेदं मनुष्यत्वं भ्रष्टं सत्पुनरपि प्राप्तुं दुष्करमिति दश
दृष्टान्ताः ।
समावण्णा णं संसारे, नाणागोत्तासु जाइसु । कम्मा नाणाविहा कट्टु, पुढो विस्संभिया पया ॥ २ ॥
संसारे समापन्नाः, अत्र 'णं' शब्दो वाक्यालङ्कारे, प्राप्ताः प्रजा-जन्तुसमूहा विश्वभृतो भवन्ति, जगत्पुरका भवन्ति, किं कृत्वा ? नानाविधासु पृथग्जातिष्वेके न्द्रियादिषु नानाविधानि कर्माणि कृत्वा, कीदृशीषु जातिषु ? नानागोत्रासु नाना- बहुप्रकारेण गोत्रं नाम यासां ता नानागोत्रास्तासु नानागोत्रासु, बह्वभिधानासु ॥ २ ॥
एगया देवलोएसु, नरएसु वि एगया ।
एगया आसुरं कायं, आहाकम्मेहिं गच्छई ॥ ३॥
एकदैकस्मिन् काले देवलोकेषु देव उत्पद्यते, पुनः स एव जीव एकदा नरकेषु नारक उत्पद्यते, एकदा आसुरं कायम्-असुरकुमारभावं प्राप्नोति । एवं जीवो यथाकर्मभिर्गच्छति, यस्मिन् समये जीवो यादृशानि - यादृग्गति दायकानि कर्माणि बध्नाति तादृशीं गतिं जीवो व्रजतीत्यर्थः ॥ ३ ॥