SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीयमध्ययनम् ३] [६५ "*धन्नाणं खु नराणं, कुम्मासा हुं ति साहुपारणए । गणिअंच देवदत्तं, रज्जं सहस्सं च हत्थीणं" ॥१॥ तया चोक्तं द्वयमपि ते सद्यः सम्भविष्यति, तस्यामेव रात्रौ देवकुट्यां मूलदेवेन सुप्तेन स्ववदनप्रविष्टश्चन्द्रः स्वप्ने दृष्टः, तदानीमेव तत्रैव सुप्तेनैकेन कार्पटिकेन तादृश एव स्वप्नो दृष्टः । मूलदेवः स्वस्त्रस्तरादुत्थितो यावत्स्वप्नं विचारयति, तावत्सोऽपि स्वस्त्रस्तरादुत्थाय स्वगुरोः पुरस्तं स्वप्नमाचख्यौ, गुरुरपि त्वमद्य घृतगुडसहितमण्डकं प्राप्स्यसीति बभाषे, मूलदेवस्तत उत्थाय नगरान्तः स्वप्नपाठकगृहे गत्वा घनं विनयं कृत्वा स्वप्नपाठकाय स्वस्वप्नमाचख्यौ, तेनोक्तं सप्तमदिवसे तव राज्यं भविष्यतीत्युक्त्वा स्वपुत्री तेन मूलदेवाय परिणायिता । अपुत्रस्तन्नगरस्वामी मृतः, पञ्चदिव्यैर्मूलदेवस्य राज्यं दत्तम्, देवदत्तां च गणिकां तत्रानाय्य मूलदेवराजा स्वराज्ञी चकार । अन्यदा तत्र व्यापारार्थमागतोऽचलव्यवहारी, राज्ञा मूलदेवेनोपलक्षितः, शुल्कमिषेण भृशं पराभूतः, स्वतेजो मूलदेवेन दर्शितम्, अचलः स्वापराधं क्षमयामास, राजीवचसा मूलदेवेन मुक्तः । अथ स कार्पटिकः स्वस्वप्नानुसारिस्वप्नदर्शिनं मूलदेवकुमारं राजानं जातं श्रुत्वा पुनस्तादृशस्वप्नार्थी तस्यामेव देवकुट्यां सुप्तः, परं तादृशं स्वप्नं न प्राप। एवं यथाऽस्य काटिकस्य तादृशस्वप्नप्राप्तिदुष्प्राप्या; तथा मनुष्यत्वाद्धृष्टस्य जीवस्य मनुष्यत्वप्राप्तिदुष्प्रापेति । (६) 'चक्केत्ति' इन्द्रपुरे इन्द्रदत्तराजा, तस्य २२ पुत्राः । अन्यदा तेन राईका मन्त्रिपुत्र्यूढा, सा वणिक्पुत्रीति परिणीयोपेक्षिता, कदापि न भुक्ता । एकदा सा ऋतुस्नानं कुर्वती राजा दृष्टा, पृष्टं च सेवकानां कस्येयं पत्नी, तैरुक्तं युष्माकं पत्नी मन्त्रिपुत्री, राज्ञा तदावासे गत्वा सा भुक्ता, तस्याः पुत्रो जातः, स राजसदृश एव, यत उक्तम् 'ऋतुस्नानसमये यं पश्यति नारी तत्सदृशं जनयति गर्भमिति ।' तया स्वपितुर्मन्त्रिणो राजभोगसम्भवगर्भप्रस्तावः प्रोक्तः, मन्त्रिणा तु तद्दिनं राजोल्लापाभिज्ञानादिकं स्ववहिकायां लिखितम्, तस्याः पुत्रो जातः, क्रमाद् वृद्धि गतः, समन्त्रिणेव पालितः कदापि राज्ञो नैव दर्शितः, मन्त्रिणा कलाचार्यपार्श्वे ७२ कलाः पाठिताः, २२ पुत्रास्त्वविनीता न पठन्ति ।। अथ मथुरायां पुरि जितशत्रुपुत्री निवृत्तिनाम्नी कृतराधावेधवरप्रतिज्ञा स्वयंवरमण्डपे तिष्ठति, तत्र २२ पुत्रपरिकरित इन्द्रदत्तराजा गतः, मन्त्र्यपि स्वपुत्रीपुत्रं सार्धं लात्वा तेनैव सह तत्र गतः, अनेकदेशायातराजपुत्रेषूपविष्टेषु सत्स्विन्द्रदत्तराज्ञा २२ स्वपुत्रा राधावेधसाधनायोत्थापितास्तैर्यथाक्रमं बाणावली मुक्ता, परं नैकेनापि राधावेधः साधितः, बाणपात इतस्ततो बभूव, सर्वेऽप्यन्ये राजपुत्रा परस्परं दत्तताला हसिताः, इन्द्रदत्तस्य राज्ञो महान् खेदो जातः । *"धन्यानां खलु नराणां, कुल्माषा भवन्ति साधुपारणके। गणिकां च देवदत्तां, राज्यं सहस्रं च हस्तिनाम् ॥१॥" १ "धण्णाणंख नराणं कम्मासा हंति साहपारणए । इय भणड मलदेवो जा परितद्रो तओ गयणे मणिभत्तदेवयाए मग्ग वरं पभणिओ वरेइ तओ। गणियं च देवदत्तं दंतिसहस्सं च रज्जं च ॥६२॥" उपदेशपद गा. ११ वृत्यां प. २६ A ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy