SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६४] [ उत्तराध्ययनसूत्रे कुमारस्यैकवारं दायो भवति, राज्ञो यथेच्छदाया भवन्ति । एवमष्टोत्तरशतस्तम्भानामेकैकं कोणमष्टोत्तरशतवारं जयति, तदा तस्य राज्यं दीयते, त्वमप्येवं कुर्विति राज्ञोक्तं कुमारस्य, यथास्य कुमारस्यैतत्करणं दुष्करम्, तथा मनुष्यत्वमपि दुर्लभम् । ( ४ ) 'रयणत्ति' एकस्मिन्नगरे कस्यचिद्व्यवहारिणो नानारत्नानि सन्ति, स लोभान्न व्यापारयति, अन्यदा पितरि देशान्तरं गते पुत्रैः कोटिध्वजत्वार्थं दूरदेशान्तरीयपुरुषाणां हस्ते तानि दत्तानि, जाताः पुत्राः कोटिध्वजाः, कियता कालेन पिता गृहमागतः, ज्ञातवान् रत्नविक्रीणनम्, रोषं विधाय पुत्रानेवमूचे मम रत्नानि पश्चाद्दापयन्तु । यथा तत् पश्चाद्वालनं दुष्करम्, तथा मनुष्यत्वमपि दुर्लभम् । (५) 'सुविणेत्ति' पाटलिपुरात्कलाकुशलो मूलदेवो राजपुत्रो द्यूतव्यसनात्पित्रा पराभूतो निर्गतो गुटिकाकृतवामनरूप उज्जयिनीं गतः, तत्र तादृशा रूपेणैव तेन वीणाकला जनानां दर्शिता, विस्मिता जनाः, वीणाकलावार्ता सर्वत्र प्रसृता, श्रुता च देवदत्तया वेश्यया, ततस्तया तस्याकारणाय चेटी प्रहिता, तया चागत्यैवमुक्तं भो वामन ! त्वां मत्स्वामिन्याकारयति तेनोक्तम् - "या विचित्रविटकोटिनिधृष्टा, मद्यमांसनिरतातिनिकृष्टा । कोमल वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः " ॥ १ ॥ वामनेनैवमुक्तेऽपि तया चेट्या विचित्रैः सामवचनैर्गृहमानीतः, देवदत्तया च तेन समं वीणावादो विहितः, वामनेन वीणाकलादिभिर्देवदत्ता जिता, पादयोर्निपत्यैवमूचेभो पुरुष ! स्वरूपं प्रकटय, अनया कलया ज्ञायते त्वमीदृग् वामनरूपवान्नासि, मूलरूपं ते पृथग्भविष्यतीति तव रूपं प्रकटय, वामनेन वेश्यावचरञ्जितेन स्वरूपं प्रकटितम्, सापि भृशं तद्रूपचमत्कृता प्रकाममागृह्य स्वगृहे तं स्वभोगासक्तं चकार, अतीव तत्प्रीतिपात्रं बभूव । अन्यदा पूर्वं तस्यामासक्तवान् व्यवहारिपुत्रोऽचलनामा गृहे समायातः, अक्कयोक्तं वत्से ! इभ्यपुत्रं भज, , मुञ्चैनं निःस्वं मूलदेवम् तयोक्तं मूलदेवो गुणवानयमचलो निर्गुणः, अक्कयोक्तमुभयोः परीक्षा क्रियते, ताभ्यामुभयोः पार्श्वे, ईक्षव आनायिताः, मूलदेवेन निस्त्वचः कर्पूरवासिताः सुसंस्कृता आनीताः, अचलेन शकटं भृत्वेक्षव आनीताः, तथाप्यक्कावचसेभ्यपुत्रेण पराभूतो मूलदेवो बेन्नातटं प्रस्थितः, अटव्यां गच्छतो मूलदेवस्योपवासत्रयं जातम् । चतुर्थदिवसे क्वापि ग्रामे भिक्षायां राद्धा माषा लब्धाः, मूलदेवेन तद्भक्षणार्थं सरसि गच्छता कश्चिन्महातपस्वी दृष्टः, तदभिमुखं गत्वा निस्तारय मां विस्तारय पात्रं द्रव्यादिशुद्धानिमान् माषान् गृहाणेत्युक्त्वा ते माषास्तस्मै दत्ताः, तदा तत्साहससन्तुष्टा देवी गगनमार्गेऽवदद्भोः पथिक ! मार्गय यथेच्छं पदद्वयेन, ततो मूलदेवोऽवदत्
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy