SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीयमध्ययनम् ३] [६३ बिलं खनित्वा प्रज्ज्वालयन् दृष्टः । चाण्क्येिन चिन्तितं योग्योऽयमिति तस्यैव तलारत्वं दत्तम्, पश्चात्स चौरनिग्रहं करोति, प्रत्युत किञ्चिदुपकारादि न करोति, तेन सर्वेऽपि चौराः प्रकटीकृता व्यापादिताश्च, जातं निष्कण्टकं राज्यम्। ___अथ कोशार्थं चाणिक्य उपायं करोति, एकदा पाटलिपुत्रसम्बन्धिनो व्यवहारिणो भोजनार्थमाकारिताः, भोजनान्ते तेषां चन्द्रहासमदिरा दत्ता, ते विह्वलीभूतास्तावता चाणिक्यः समुत्थाय नृत्यन्नेवं पठति - "दो मज्झ धाउरत्ताई, कंचणमयकुंडिआ तिदंडं च । रायावि अ मे वसवत्ती, इत्थ वि ता मे होलं वाएहि ॥१॥" इदं श्रुत्वाऽपरः कश्चित्समुत्थायाजन्मतोऽपि यन्न प्रकटितं तद्वदति, इतः सहस्रयोजने हस्तिपददेशे टङ्ककानां लक्षमस्ति, अत्रार्थे ममापि होलं वादय, अपरः पठति मया तिलाढक उप्तोऽस्ति, ततो मम ते तिला बहुलक्षाणां निष्पत्स्यन्ते, अत्रार्थे ममापि होलं वादय, अन्यः पठति तावन्त्यो मे गावः सन्ति, यासां नवनीतेन महागिरिनदीप्रवाहो रुद्ध्यते । अपरः प्राह तावन्त्यो मे वडवाः सन्ति, यासामेकदिनजातैः किशोरपुच्छकेशैः पाटलिपुरनभोमण्डलं छादयामि, अन्यः प्राह तादृशा मे शालयः सन्ति, यद्वीजैः प्रत्यहं शालयो नवीना भवन्ति, अत्रार्थे ममापि होलं वादय, एवं सर्वेषां वित्तमर्यादां श्रुत्वा चाणिक्येन यथायोग्यं वित्तं गृहीतम्। ___अथ चाणिक्यः सुवर्णोपार्जनोपायं चिन्तयन् देवमारराध, तुष्टेन देवेन तस्य जयिनः पाशका दत्ताः।चाणिक्येन तैः पाशकैः कश्चिन्नरः शिक्षितो द्यूतार्थं प्रेरितः, सगृहीतसुवर्णटङ्ककस्थालः पुराभ्यन्तरे भ्रमन्नेवं वक्ति, अहं यदि जयामि तदा सुवर्णटङ्ककमेकं गृह्णामि, मां यद्यन्यो जयति तदा तस्य सुवर्णटङ्ककस्थालमिदं ददामीति श्रुत्वा बहवो जनास्तेन समं द्यूतक्रीडां कुर्वन्ति, परंहारिता इव जना न किञ्चिदाप्नुवन्ति, सतु सर्वत्र जयति।एवं पाशकयुक्तस्य तत्पुरुषस्य पराजयो दुर्लभस्तथा मनुष्यत्वप्राप्तिर्दुर्लभेति पाशकदृष्टान्तः । (२) ___धन्नेत्ति' भरतसत्कानि सर्वाण्यपि धान्यान्येकत्र सम्मील्य मध्ये सर्षपप्रस्थप्रक्षेपः केनचिद्देवेनाभिधीयते, तत्सर्वमेकीकृत्य कस्याश्चिदतिवृद्धाया दीयते, तस्या यथा सर्वधान्यानां प्रत्येकं पृथक्करणं दुष्करम्, तथा मनुष्यत्वमपि दुर्लभम् । (३) । ___'जूएत्ति' एको राजा तस्याष्टोत्तरशतस्तम्भालङ्कृता सभाऽस्ति, स्तम्भे स्तम्भे च १०८ कोणाः सन्ति । एकदा तस्य राज्ञः पुत्रो राजानं मारयित्वा स्वयं भोक्तुमीहते, तस्याध्यवसायो मन्त्रिणा ज्ञातः, कथितश्च राजे, राज्ञापि पुत्रायोक्तं हे पुत्र ! योऽस्माकमनुक्रम न सहते, स द्यूतं खेलयति, यदि जयति तदा तस्य राज्यं दीयते । द्यूतक्रीडनविधिरयं वर्तते, १ "द्वे मम धातुरक्तके, काञ्चनमयकुण्डिका (कमण्डलु) - त्रिदण्डं च । राजा अपि मम वशवर्ती, अत्रापि तस्मान्मम होलं वादय ॥१॥" अत्र तुलनार्थं - उपदेशपदे चाणिक्यद्वारे गा. १३९ वृत्यां श्लोक ९३ तः दष्टव्यः॥ * वाद्य विशेष
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy