SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६२] [उत्तराध्ययनसूत्रे तावता तेनैव खड्गेन स चाणिक्येन द्विधा कृतः । पश्चात्सरसो निष्कासितश्चाणिक्येन चन्द्रगुप्तः, अश्वमधिरोहितः पथि गच्छता चाणिक्येन चन्द्रगुप्तः पृष्टो-भो यस्यां वेलायां त्वं मयाश्ववारस्य दर्शितस्तदा तव मनसि किमभूत् ? चन्द्रगुप्तेनोक्तं मयैवं ज्ञातं मम हितायैव भवताहं दर्शितः । चाणिक्येन ज्ञातं योग्योऽयमेव, पश्चाच्चन्द्रगुप्तः क्षुधा” जातः, ततश्चाणिक्येन क्वापि स्थाने सद्यो भुक्तस्य बटुकस्य जठरं द्विधाकृत्य दधिकूरं गृहीतम्, भोजितश्चन्द्रगुप्तः । ततो ग्रामे ग्रामे भिक्षां कुर्वंश्चाणिक्यो भ्रमति । एकदा कस्मिंश्चिद् ग्रामे चाणिक्य एकस्या वृद्धाया गृहे भिक्षार्थं गतः। तत्र तया बालकानां भोजनाय भाजने रेयी क्षिप्ता, एकेन बालेन मध्ये हस्तः क्षिप्तः, दग्धः स रोदिति, तयोक्तं - रे मूढ ! त्वमपि चाणिक्यवन्न जानासि, चाणिक्येनोक्तं हे मातश्चाणिक्यः कस्मान्मूढः ? तयोक्तं पूर्वं पार्थानि गृह्यन्ते ततो मध्ये हस्तः पात्यते भोजने राज्यग्रहणे च।। तत् श्रुत्वा गतश्चाणिक्यो हिमवत्पार्श्वे, तत्र पर्वतनामा परिव्राजको राजा, तेन सह मैत्री कृता चाणिक्येन, तस्य प्रस्तावे उक्तम्, नन्दराज्यं लात्वार्धमर्धं त्वया चन्द्रगुप्तेन च भुज्यते, प्रतिपन्नं परिव्राजकराजेन । ततः सैन्येन सह द्वावपि चलितो, मार्गस्थग्रामनगराणि स्वायत्तीकुरुतः, एकदा मार्गे महदेकं नगरमागतम्, तद् गृहीतुं न शक्यते, परिव्राजकवेषण चाणिक्यो नगरमध्ये प्रविष्टः, तदन्तर्देवदेवीमूर्तयः सप्रभावा दृष्टाः, विचित्रया मायया पौरान् विप्रतार्य ताः सर्वा दूरीकृताः, ततो नगरं गृहीतम् । क्रमेण ससैन्यौ तौ पाटलीपत्र-परिसरे गतौ, रुद्धं तन्नगरम्, नन्दो धर्मद्वारेण निर्गमममार्गयत्, ताभ्यामुक्तमेकरथे यावन्माति तावत्प्रमाणं वित्त-दारा-सुतादिकं लात्वा निर्गच्छ, नन्देन तथैव कृतम् । एका नन्दपुत्री रथस्थिता निर्गच्छन्ती पुनः पुनश्चन्द्रगुप्तं पश्यति, नन्देन भणितं याहीति । सा रथादुत्तीर्य चन्द्रगुप्तरथे गत्वा यावदारोहति तावत्तदथे नवारका भग्नाः, अमङ्गलमिति ज्ञात्वा चन्द्रगुप्तेन सा निषिद्धा, चाणिक्येनोक्तमिमां मा निवारय, नवपुरुषयुगानि यावत्तव वंशो भावीति, प्रतिपन्नं तेन। अथ परिव्राजकराज-चन्द्रगुप्त-चाणिक्याः, पाटलिपुरमध्ये प्रविष्टाः, गता राजगृहे, राज्यं द्विधा विभज्य गृहीतम्, तत्रैका विषकन्याऽस्ति, तां दृष्ट्वा परिव्राजकराजः कामविह्वलो जातः, चाणिक्येन सा तस्यैव दत्ता, तस्याः प्रथमपरिष्वङ्गेनैव स विषातॊ जातः, यावता चन्द्रगुप्तो विषप्रतिकारं करोति तावता चाणिक्येन भृकुटिः कृता, कर्णे चेमं श्लोकं पठितवान् - "तुल्यार्थं तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते ॥ १ ॥" ततश्चन्द्रगुप्तस्तत्प्रतीकाराद् दूरीभूतः परिव्राजकराजस्तु मृतः । ततश्चन्द्रगुप्तः सम्पूर्ण राज्यं करोति, परं नन्दमनुष्याश्चौर्येण देशोपद्रवं कुर्वन्ति । एकदा चाणिक्यश्चौरदमनोपायं चिन्तयन्नगराबहिर्गतः तत्र नलदामकुविन्दः स्वपुत्र मत्कोटकैरुच्चाटितं दृष्ट्वा कोपात्तेषां
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy