SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीयमध्ययनम् ३] [ ६१ इति चिन्तयित्वा द्रव्योपार्जनार्थं नन्दराजाधिष्ठिते पाटलीपुरे गतः । तत्सभायां पूर्वदिग्न्यस्ते आसने निषण्णः, तत्र नन्देन समं कश्चिन्नैमित्तिकस्तत्रायातः, तेनोक्तमेष ब्राह्मणो नन्दवंशस्य छायामतिक्रम्य स्थितोऽस्तीति; तद्वाक्यश्रवणाद् भृत्यैरुत्थापितो द्वितीये आसने उपविष्टः प्रथमे करवतीं स्थापयति, तृतीये दण्डकम्, चतुर्थे जपमालाम्, पञ्चमे यज्ञोपवीतमेवं चेष्टां कुर्वन्नसौ नन्दभृत्यैः शठ इति कृत्वा यष्ट्यादिभिराच्छोटितो द्वेषमापन्नस्तदानीमेवमुवाच - "कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः ॥ १ ॥ " ततो बिम्बान्तरितो राजा भविष्यामीति स साधुवचः स्मरन् भाग्यवन्तं पुरुषं विलोकयन् मेदिन्यां भ्रमति । अन्यदा नन्दस्य मयूरपालकाणां ग्रामे गतः परिव्राजकवेषेण चाणिक्यः, तत्र मयूरपालकवृद्धस्य गर्भिण्याः स्त्रियश्चन्द्रपानदोहदो जातः । तया पित्रादीनामुक्तम्, पित्रादिभिर्गृहागतस्य चाणिक्यस्योक्तम्, चाणिक्येनोक्तमहं बुद्ध्या दोहदमस्याः पूरयिष्यामि, यद्यस्याः पुत्रमष्टवार्षिकं मे ददत ? तैस्तथेतिप्रतिपन्नम्, चाणिक्येन सा सच्छिद्रमण्डपे शायिता, तन्मुखाभिमुखोच्चैस्तरप्रदेशे शर्करामिश्रदुग्धभृतस्थालप्रयोगो विहितः तद्विन्दवस्तस्या मुखे पातिताः । ततस्तद्दोहदपूर्तिर्जाता, कालक्रमेण पुत्रो जातस्तस्य चन्द्रगुप्त इति नाम दत्तम्, यावच्चन्द्रगुप्तस्तत्र वर्धते, तावच्चाणिक्योऽपि देशान्तरे धातुवादादिकं शिक्षित्वा पुनस्तत्रागतः । स चन्द्रगुप्तो दारकैः समं राजनीत्या क्रीडां कुर्वन् दृष्टः, तत्र समागत्य स बालश्चाणिक्येन याचितः, बालकेनोक्तं मां गृहाण, चाणिक्येनोक्तं गोस्वामी त्वां ताडयिष्यति, तेनोक्तं वीरभोग्या वसुन्धरा । चाणिक्येन ज्ञातमयं महानुदारचरित इति ज्ञात्वा कस्यचित्प्रत्यासन्नपुरुषस्य पृष्टमयं कस्य सुतः ? तेन मातुर्दोहदपूरकं चाणिक्यमुपलक्ष्य तव पुत्रोऽयमित्युक्तम्, चाणिक्य उवाच हे बाल ! त्वं चल मया समं त्वामहं राजानं करोमि, चलितश्चाणिक्येन समं बालः, परदेशशिक्षितधातुवाददव्यबलेन लोको घनो मेलितः, गत्वा पाटलीपुरं रुद्धम्, नन्दो बहिर्निर्गत्य तेन समं युद्धं चकार, भग्नश्चाणिक्यः, मेलितो लोकः सर्वोऽपीतस्ततो जगाम, चन्द्रगुप्तं लात्वा चाणिक्यो नष्टः । नन्दपुरुषा अश्वारूढास्तं विलोकयन्ति एते त्वागताः, अहं तु सबालः पादचारी, अश्वारूढानामेतेषां पुरः क्व यास्यामीति ध्यात्वा सरस्तीरस्थितं रजकं दृष्ट्वा चाणिक्यः प्राह- -भो रजक ! मारणाय नन्दभट्टाः समायान्ति, तद्वचः श्रुत्वा रजको नष्टः, चाणिक्यः स्वयं रजको जातः । चन्द्रगुप्तस्तु सरसि प्रवेशितः, एको नन्दाश्ववारस्तत्रायातः, तेन पृष्टम्, भो रजक ! चन्द्रगुप्तः क्व गतः इति ? रजकः प्राह-अस्मिन् सरसि प्रविष्टः, अश्ववारेण स्वघोटकस्तस्यार्पितः, खड्गमपि तस्यार्पितम् स्वयं तु सरः प्रवेशाय यावत्सज्जो भवति, १ दारैश्च- उप पद १३९ वृत्त्यां प. १०९ B ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy