________________
६०]
[उत्तराध्ययनसूत्रे "प्रवर्धमानः पुरुष - स्त्रयाणामुपघातकः ।
पूर्वोपार्जितमित्राणां, दाराणामथ वेश्मनाम्" ॥ १ ॥ इति विमृश्योक्तं किं सन्तापकारिणा बहुपरिग्रहेण ? प्रार्थय भरतक्षेत्रे प्रतिगृहं भोजनं दीनारयुगलं च । ततो विप्र आगत्य तथैव चक्रिणं प्रार्थयामास । चक्री हसित्वोवाच भो किमनया विडम्बनया ? देश-ग्राम-भाण्डारादि प्रार्थय, स तदेव प्रार्थयति नान्यत्किमपीति । चक्रिणा विचारितम् -
"'जो जत्तिअस्स अत्थस्स, भायणं तस्स तत्तीअं होइ।
वुढेवि दोणमेहे, न डुंगरे पाणियं ठाइ" ॥ १ ॥ इति विचिन्त्य प्रतिपनं तच्चक्रिणा, प्रथमदिने स्वगृहे सकुटुम्बस्य तस्य भोजनं कारितं दीनारयुगलं च दत्तम् । एवं स ब्राह्मणो भरतक्षेत्रसम्बन्धि-समस्तगृहेषु भोजनं गृहीत्वा पुनश्चक्रिणो गृहे भोजनं कर्तुमायाति किं ? कदाचिद्दिव्यानुभावादायात्यपि, परं मनुष्यावताराद्धृष्टः पुनर्मनुष्यावतारे नायातुं शक्नोतीति मनुष्यत्वदुर्लभतायां चोल्लग दृष्टान्तः प्रथमः।
अथ पाशकदृष्टान्तो यथा -
गोल्लदेशे चणकग्रामोऽस्ति, तत्र चणकब्राह्मणः श्राद्धः, एकदा तस्य गृहे साधवः स्थिताः, तदानीं सदंष्ट्रस्तस्य पुत्रो जातः, दर्शितः साधूनाम्, साधुभिरुक्तं सदंष्ट्रत्वेनाऽसौ राजा भविष्यतीति । पित्रा विमृष्टमसौ राजा भूत्वा नरकं गमिष्यतीति भीत्या तस्य दंष्ट्रा घर्षिता, पुनस्तादृशो गुरुणां दर्शितः तैरुक्तमेकपुरुषान्तरितो राजा भविष्यति । तस्य बालस्य चाणिक्य इति नाम दत्तम् । अथाऽसौ वर्धमानश्चतुर्दश विद्यास्थानानि पठितवान् कालान्तरेण परिणीतः ।अन्यदा चाणिक्यभार्या भ्रातृविवाहे गता, तत्रान्या अपि सद्रव्यपतिकास्तद्भगिन्यो बह्वयः समायाताः, ताश्च मातृ-पितृ-भ्रातृभिर्बहुमानिताः, इयं चोपेक्षितप्राया खिन्नैवमचिन्तयन्मम पत्युर्निर्धनत्वेनैते पित्रादयोऽपि मां न मन्यन्ते, खिन्ना सती सा पश्चादायाता, चाणिक्येन तस्याः खेदस्वरूपं पृष्टम्, पितृगृहे सर्वासां भगिनीनां मानं स्वापमानं चोक्तम्। चाणिक्यश्चिन्तयति
"२अलियंपि जणो धणड्डयस्स सयणत्तणं पयासेइ । -
परमत्थबंधवेणवि लज्जिज्जइ हिणविहवेण ॥१॥" तथा
"'कज्जविहूणाण नेहो, अत्थविहूणाण गउरवं लोए ।
पडिवन्ने निव्वहणं, कुणंति जे ते जए विरला ॥ २॥" १"यो यावन्मात्रस्यार्थस्य, भाजनं तस्य तावन्मात्रं भवति ।
वृष्टेऽपि दोणमेघे, न पर्वते पानीयं तिष्ठति ॥१॥" २"अलीकमपि जनो धनाढ्यस्य स्वजनत्वं प्रकाशयति । परमार्थबान्धवेनापि लज्ज्यते हीनविभवेन ॥१॥" ३ कार्यविहीनानां स्नेहो-ऽर्थविहीनानां गौरवं लोके । प्रतिपन्ने निर्वहणं, कुर्वन्ति ये ते जगति विरलाः॥२॥"