________________
३. चतुरङ्गीयमध्ययनं अथ द्वितीयाध्ययनेन सह तृतीयाध्ययनस्य सम्बन्धमाह-किमालम्बनं कृत्वैते परीषहाः सोढव्याः ? इति प्रश्न, उत्तरं चतुरङ्गदुर्लभत्वालम्बनेन सम्बन्धमाह
चत्तारी परमंगाणि, दुल्लहाणीह जंतुणो ।
माणुसत्तं सुई सद्धा, संयममि य वीरियं ॥१॥ एतानि चत्वारि परमाङ्गानि, परमाण्युत्कृष्टानि, अङ्गानि-मोक्षसाधनोपायानि, परमत्वं ह्येतेषां प्राप्ति विना मुक्तिप्राप्तेरभावात्, कथंभूतानि परमाङ्गानि ? जन्तोर्जीवस्य दुर्लभानि, एतानि कानि ? मनुष्यत्वं-मनुष्यजन्म, पुनः श्रुतिः-धर्मस्य श्रवणम्, पुनः श्रद्धा-धर्मे रुचिः, पुनः संजमंमि' संयमे-साध्वाचारपालने वीर्य-सामर्थ्य , बलस्य स्फोरणम् ॥१॥ अत्र
"चुल्लगपासकधण्णे, जूए रयणए य सुमिणचक्के अ। चम्मयुगे परमाणू, दस दिटुंता मणुअलंभे ॥ १॥"
[उप. पद गा.५] दशदृष्टान्तवन्मनुष्यत्वं दुर्लभमुक्तं तत्र चोल्लगदृष्टान्तो -
यथा - चोल्लगं-परिपाटीभोजनम्, तदर्थं कथा - काम्पिल्यनगरे ब्रह्मराजा, चुलनी भार्या, तयोः पुत्रो ब्रह्मदत्तः । एकदा मृतः पिता, ब्रह्मपुत्रो बाल इति कृत्वा मित्रद्वयप्रहितो दीर्घपटनामा राजा तदाज्यं रक्षति,सचलन्यामासक्तो जातः,ब्रह्मदत्तेन तयोरनाचारो ज्ञातः. शूलाप्रोतपिष्टमय-कुर्कुट-कुर्कुट्यादिसम्बन्धफलदर्शनेन ताभ्यां स्वानाचारभीताभ्यां कन्या ब्रह्मदत्तस्य परिणायिता, जतुगृहं च कारितम्, तावता धनुमन्त्रिणा तयोः कपटं ज्ञातम्, जतुगृहात्सुरङ्गा खानिता, सुरङ्गाद्वारेऽश्वद्वयं स्थापितम्, स्वपुत्रस्य वरधनुनाम्नस्तत्स्वरूपं ज्ञापितम्, सुरङ्गामार्गश्च दर्शितः । ब्रह्मदत्तस्य वरधनुरनुचरः कृतः, अन्यदा मातृप्रेरितो ब्रह्मदत्तः कन्यासहितो जतुगृहे सुप्तः, वरधनुः प्रत्यासन्न एव सुप्तः, मध्यरात्री मात्रा ज्वालितं गृहम्, उत्थितो ब्रह्मदत्तस्तस्य च वरधनुना सुरङ्गामार्गो दर्शितः । ततो निर्गत्य वरधनुमित्रेण सह ब्रह्मदत्तोऽश्वद्वयमधिरुह्य दुरदेशे गतः, ।अत्यन्तपथश्रमादश्वद्वयं मृतं पादचारेण मित्रेण सह ब्रह्मदत्तः पृथिव्यां भ्रमति । एकदा दीर्घपृष्ठप्रेषितं सुभटवृन्दं दृष्ट्वा वरधनुः पृथग्गतः, कुमारस्त्वेक एव भ्रमन् केनचिद्विप्रेण दृष्टः, तेन सहाटवीमुत्तीर्णः, पृथग्वजन्तं विप्रं प्राह कुमारः, भो ! यदा मम राज्यप्राप्तिः स्यात्तदा त्वयागन्तव्यमिति। - अथ कुमारी महाराजा जातः, चक्रवर्तिपदवी प्राप्तः तदानीमागतः स ब्राह्मणः, उपानद्ध्वजप्रयोगेण मिलितः, चक्रवर्तिनोपलक्षितः, कुशलं पृष्टम, प्रोक्तं च मनोऽभीष्टं मार्गय, स प्राह ब्राह्मणी पृष्ट्वा मार्गयिष्यामि, गतस्तस्याः समीपम्, कथितवानेवं चक्रवर्ती मम तुष्टोऽस्ति, किं मार्गयामि ? तया विमृष्टम् -