SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५८] [उत्तराध्ययनसूत्रे ___अथ कस्य कर्मण उदये कः परीषहोदयः स्यादित्याह - दर्शनमोहनीयोदयाद्दर्शनपरीषहः स्यात्, ज्ञानावरणीयोदये प्रज्ञापरीषहः स्यात्, तस्यैवोदयेऽज्ञानपरीषहोऽपि स्यात्, अन्तरायकर्मोदयेऽलाभपरीषहः स्यात्, चारित्रमोहनीयकर्मोदये आक्रोश १, अरति २, स्त्री ३, नैषेधिकी ४, अचेल ५, याञ्चा ६, सत्काराः ७, एते सप्तपरीषहा उत्पद्यन्ते, शेषा एकादश वेदनीय-कर्मोदये उत्पद्यन्ते ॥ ४५ ॥ अथ सर्वोपसंहारगाथामाह - एए परीसहा सव्वे, कासवेणं पवेईया । जे भिक्खून विहन्निज्जा, पुट्ठो केणइ कण्हुई ॥४६॥त्तिबेमि एते द्वाविंशतिः सर्वे परीषहाः काश्यपेन श्रीमहावीरेण प्रवेदिताः-प्रकर्षेण ज्ञाताः, यान् ज्ञात्वा भिक्षुः- साधुः केनापि परीषहेण स्पृष्टः सन् कुत्रचित्कस्मिश्चित्प्रदेशे कस्मिश्चित्काले वा न विहन्येत संयमान्न पात्येत ॥ ४६॥ इदं हि कर्मप्रवादनामाष्टमो हि पूर्वस्तस्य सप्तदशं प्राभृतम्, तस्योद्धारलेशं द्वितीयमध्ययनमुत्तराध्ययनस्य । इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां द्वितीयमध्ययनं सम्पूर्णम् ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy