________________
परीषहाध्ययनम् २]
[५७ ___वियडत्ति' देशीवचनस्तटाकिकेत्यर्थः । यतिप्रणीतामिमां मागधिकां श्रुत्वाऽजो जातिस्मरणधरो मौनवान् जातः, तत्पुत्रेण साधुः पृष्टः कथमसौ मौनी जातः ? साधुः प्राहअयं त्वत्पिताऽजयागकरणादज एव जातः, तत्पुत्रेणोक्तमत्रार्थेऽभिज्ञानं किं ? साधुः प्राह तव गृहाङ्गणभूनिहितं निधिमसौ पादाग्रेण दर्शयिष्यति । ततस्तथैव तेनाऽजेन कृतम्, पुत्रस्याजस्य च धर्मप्राप्तिर्द्वयोरपि देवलोकगतिर्जाता । एवं तेन ब्राह्मणेन शरणं मे भविष्यतीति कृत्वा तटाकसमीपे यज्ञारामो विहितः, स एवाऽस्य वधस्थानतया भवनेन शरणाद्भयमुत्थितमिति शब्दपदं जातम् । एवं भवन्तोऽपि शरणागतानामस्माकमनर्थकारिणो जाताः । एवमुक्तेऽपि त्रसकायिक-कुमारस्याभरणानि गृहीतानि । एवं षण्णामपि कुमारकाणां पण्डितवादिनो यूयमित्युक्त्वाभरणान्यादायाग्रे चलितः सूरिः । पुनस्तेन देवेन सम्यक्त्वपरीक्षार्थं हारकङ्कणाद्यलङ्कृता साध्व्येका दर्शिता । तां दृष्ट्वा सूरिरेवमाख्यत्, हे प्रवचनोड्डाहकारिके ! दूरतो व्रज, मुखं मा दर्शय, रुष्टया तयोक्तम् -
'राइसरिसवमित्ताई, परच्छिद्दाइं पाससि । अप्पणो बिल्लमित्ताई, अपि छिद्दाई न पाससि ॥१॥
[उत्त० नियुक्तिः गा. १४० ] तव पतद्गृहे किमस्तीति तया प्रत्युतोपालब्धस्तथाप्यसौ न प्रतिबुद्धः । अग्रे चलता तेनाचार्येण स्कन्धावारगतो राजा दृष्टः, तेन राज्ञाचार्यों वन्दितः, प्रोक्तं च हे प्रभो ! पात्रक धर प्रासुकमोदकान् गृहाण ततः स पात्रक्षिप्ताभरणदर्शनभीत्यावददहमद्याहारं न करिष्ये, राज्ञा च हठाज्झोलिकातः पात्रं कर्षितम्, आभरणानि दृष्टानि ।। ___ राज्ञोक्तं हे अनार्य ! किं त्वया मत्पुत्रा व्यापादिताः ? इत्यादिवचनैस्तर्जितः स सूरिर्भयभ्रान्तो न किञ्चिद्वक्ति, पश्चान्मायाजालं संहृत्य स शिष्यदेवः प्रकटीभूतः, स्ववृत्तान्तं चाचकथत्, एवं चोपदिष्टवान् हे प्रभो ! यथा त्वया नाट्यं पश्यता षण्मासान् यावत्क्षुत्तृषा न ज्ञाता, एवं देवा अपि दिव्यनाट्यं पश्यन्तो न किञ्चित्स्मरन्ति, नाप्यात्रागमनोत्साहं कुर्वन्ति, यतः सिद्धान्तेऽप्युक्तम्
* "संकंतदिव्वपेमा, विसयपसत्ताऽसम्मत्तकत्तव्वा । अणहीणमणुअकज्जा, नरभवमसुहं न इंति सुरा ॥ १॥"
[बृ. सं. २३०] इत्यादि शिष्यदेववाक्यैः स प्रतिबुद्धः, सिद्धान्तवचनास्थां कृत्वा पुनः संयमे लीनः, पूर्वं तेन दर्शनपरीषहो न सोढः, पश्चात् सोढः ॥२२॥ १ "राजिका-सर्षपमात्राणि, परच्छिद्राणि पश्यसि ।आत्मनो बिल्वमात्राण्यपि छिद्राणि न पश्यसि ॥१॥" * “सङ्क्रान्तदिव्यप्रेमाणो, विषयप्रसक्ताऽसमाप्तकर्तव्याः। अनधीनमनुजकार्याः नरभवमशुभं न यान्ति सुराः ॥१॥"