________________
[ उत्तराध्ययनसूत्रे "अइरुग्गइएवि सूरिए, चेइए अ थूभगएवि वायसे । भित्तीगए वि आयवे, सहि सुहिए हु जणो न बुज्झइ ॥ १ ॥
[ उत्त० निर्युक्तिः गा. १३५ ] अस्या व्याख्या- अचिरोद्गतकेऽपि च सूर्ये, कोऽर्थः ? प्रथमोदिते रवौ चैत्यस्तूपगते च वायसे अनेनोच्चविवस्वतीत्याह, भित्तिगते चातपे, अनेनोच्चतर इत्यर्थः, हे सखि ! सुखितो हुर्वाक्यालङ्कारे, जनो न बुध्यते, न निद्रां जहाति, अनेनात्मनो दुःखितत्वं प्रकटयति, सा हि भर्तृविरहदुःखिता न रात्रौ निद्रां लब्धवतीति मागधिकार्थः । जननीप्रोक्तामिमां मागधिकां श्रुत्वा पुत्री विनिद्रा प्राह -
५६ ]
"तुमेव ह अंब मालवे, मा हु विमाणय जक्खमागयं । जक्खो अ न हु एह तायए, अन्नं माय गवेस तातयं ॥ १ ॥”
[ उत्त० निर्युक्तिः गा. १३६ ] अस्या व्याख्या- त्वमेवाम्ब मातः ! ह इत्यामन्त्रणे अलापीः उक्तवती शिक्षासमये, यथा 'माहु' त्ति मैव 'विमाणय' त्ति यक्षमागतं विमुखं मा कृथाः, 'जक्खोयति' अयं यक्षः, न त्वयं तातकः-पिता, हे मातरन्यं तातं गवेषयेति मागधिकार्थः ॥ १ ॥ पुनर्माता भणति
-
"नव मासह कुच्छि धारिया, जस्सा पस्सपुरीसमद्दियं । धुयाए तर मि गेहिओ, हरिओ सरणासरणयं ॥ १ ॥"
[ तुला. उत्त० निर्युक्तिः गा. १६७ ]
अस्या व्याख्या-नवमासान् यावत् या कुक्षौ धारिता, यस्याः प्रश्रवणं पुरीषं च मर्दितम्, 'धुयाए तएत्ति' तया दुहित्रा 'मे' त्ति मम गेहिको भर्ता हृतश्चौरितस्ततो हेतोः शरणमशरणं मम जातमिति गम्यम् हितं कुर्वत्या ममाहितं जातमिति मागधिकार्थः ॥ १ ॥ यथा तस्याः पुत्र्या मातृ [ ता ]-पितृभ्यां विनाशः कृतस्तथा मातृ [ ता ]-पितृतुल्येन भवता मद्विनाशः क्रियमाणोऽस्ति । एवं त्रसकायिकेनोक्तेऽपि स आचार्यो न निवर्तते । अथ त्रसकायिकश्चतुर्थी कथामाह
एकस्मिन् ग्रामे एकेन ब्राह्मणेन यज्ञार्थं सरोऽकारि, सरः समीपे वनमपि च कारितम्, तत्रानेकान् पशुन् जुह्वन् द्विजो मृतस्तत्रैव ग्रामेऽजोऽजनि स चरणार्थं बहिर्याति, सरो वनं च पश्यति, ततो जातिस्मरणवान् जातः । अन्यदा तत्सुतेन यज्ञः कर्तुमारेभे, तदर्थमसावेवाजस्तेन सुतेन तत्रैव सरोवरे नीयमानो गाढस्वरेण पूत्कारं कुर्वन् केनचिन्मुनिना सातिशयज्ञानेन दृष्टो भणितश्च
""वियड खणावी तई छगल, तइआरोविअरुक्ख । जन्नपवत्तण तरं कीयओ, काई बूबू मुरक्ख ॥ १ ॥”
१ " तटागिका खानिता त्वया अज, त्वयाऽऽरोपिता वृक्षाः ।
यज्ञ प्रवर्त्तनं त्वया कृतं कथं 'बे बे ति' (ब्रवीषि ) मूर्खः ! ॥ १ ॥"