________________
परीषहाध्ययनम् २]
[५५ "'जाव वुच्छं सुहं वुच्छं, पायवे निरुवद्दवे । मूलाओ उट्ठीआ वल्ली, जायं सरणओ भयं ॥१॥"
[उत्त० नियुक्तिः गा. १३२] एवमुक्तेऽपि वनस्पतिकायिकस्याभरणानि तेनाचार्येण गृहीतानि ।अथ त्रसकायिकः कुमारः कथामाह
एकस्मिन्नगरे परचक्रागमे पुरं प्रविशतश्चाण्डालानशौचभीत्या जनैर्निष्कास्यमानान् दृष्ट्वा मध्यस्थजनाः केचिदाहु:
"२अभितरिआ भीआ, पिल्लंति बाहिरे जणे । दिसं भयह मायंगा, जायं सरणओ भयं ॥ १ ॥"
[उत्त० नियुक्तिः गा. १३३] त्रसकायिको द्वितीयां कथामाह-एकस्मिन्नगरे राजा स्वयं चौरः, पुरोहितो भाण्डीवहः, तयोरन्यायं दृष्ट्वा लोकाः परस्परं वदन्ति
"जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ । दिसं भयह नागरगा, जायं सरणओ भयं ॥ १ ॥"
[उत्त० नियुक्तिः गा. १३४] अथाऽसौ तृतीयां कथामाह -
एकस्मिन् ग्रामे एकस्य ब्राह्मणस्य पुत्री यौवनस्थाऽतीवदर्शनीयास्ति, तस्या पितुर्भोगेच्छाभूत्, परं लज्जातः कस्याप्यने न कथयति, दुर्बलो जातः, पल्या दुर्बलत्वकारणं पृष्टम्, स स्वसुताभोगेच्छां प्राह, तया प्रोक्तम्, मा विषीद तवेच्छामहं पूरयिष्यामीत्युक्त्वा मातैकान्ते पुत्रीं प्राह-हे वत्सेऽस्माकं पूर्वं पुत्रीं यक्षा भुञ्जन्ति, पश्चाद्वरस्य दीयते । ततो यक्षः कृष्णचतुर्दश्यां त्वदावासे समायास्यति, त्वया तस्यापमानं न कार्यम्, रात्रौ त्वयोद्योतो न कार्यः।
एवं मात्रोक्ते सा पुत्री रात्रिप्रस्तावे स्वगृहे सुप्ता, यक्षं साक्षात्पश्यामीति कौतुकेन दीपकः कृतः परंशरावसम्पुटे रक्षितस्तेन तद्गृहान्तरुद्योतो न दृश्यते, रात्रौ तत्र पिता यक्षरूपः प्रविष्टः, तेनेयं भुक्ता, रतक्लान्तश्च तत्रैव सुप्तो निद्राणश्च, अनया च कौतुकेन शरावसम्पुटं दूरीकृत्य दीपोद्योते दृष्टो जनकः, ज्ञातं मातृकपटम्, तया चिन्तितं यद्भवति तद्भवतु, मयानेनैव सह विलासः कार्यः, इति चिन्तयित्वा जागरितेन तेन समं पुनर्भोगान् भुक्त्वा सा सुप्ता सोऽपि सुप्तः द्वावपि निद्राणी, प्रभातेऽपि न जाग्रतः, प्रातर्बाह्मणी तत्रागत्य तौ तथा सुप्तौ दृष्ट्वेमां मागधिकां पठति - १ यावदुषितं सुखमुषितं पादपे निरुपद्रवे । मूलादुत्थिता वल्ली, जातं शरणतो भयम् ॥१॥ २ आभ्यन्तरका भीताः, प्रेरयन्ति बाह्या जनाः । दिशं भजत मातङ्गा, जातं शरणतो भयम् ॥१॥ ३ यत्र राजा स्वयं चौरो, भण्डकश्च पुरोहितः । दिशं भजत नागरकाः, जातं शरणतो भयम्॥१॥