________________
५४]
[ उत्तराध्ययनसूत्रे "जेण रोहंति बीआणि, जेण जीवंति कासवा । तस्स मज्झे मरिस्सामि, जायं सरणओ भयं ॥ १॥"
[उत्त० नियुक्ति: गा० १२६] एवमप्कायिककुमारेण कथोक्ता, तथापि तस्याभरणानि तेनाचार्येणातिपण्डितोऽसि हे कुमारेत्युक्त्वा गृहीतानि, सोऽपि तथैव गतः ।अग्रेऽग्निकायिकः कुमारस्तस्यापि तथैवोक्तिप्रत्युक्तिः, तत्कथिता कथा चैषा - एकस्य तापसस्याऽग्निनोटजो दग्धः स वक्ति -
"जमहं दिवा य राओ य, तप्पेमि महुसप्पिणा [सा] तेण मे उडओ दड्डो, जायं सरणओ भयं ॥ १ ॥"
[उत्त० नियुक्तिः गा० १२७] अस्मिन्नेवार्थे द्वितीया कथा-कश्चित्पथिकः पथि व्याघ्रभीत्याऽग्निशरणं श्रितः, तेनैव तस्याङ्गं दग्धम्, स प्राह
"मए वग्घस्स भीएणं, पावओ सरणीकओ। तेण दहूं मम अंगं, जायं सरणओ भयं ॥ २ ॥"
[उत्त० नियुक्तिः गा० १२८] एवं कथाद्वयं कथयतस्तस्य कुमारस्य तेनाचार्येण तथैवोक्त्वाऽऽभरणानि गृहीतानि । अग्रे वायुकुमारो मिलितस्तस्य तथैवोक्तिः, तत्कथिता कथा चेयम् -
एको घननिचितशरीरो वायुजातिः, स चान्यदा वायुभग्नाङ्गो दण्डधारी मार्गे गच्छन् केनाप्युक्तो-हंहो दृढाङ्गः त्वम् कथमीदृग्जातः ? स आह -
""जिट्ठासाढेसु मासेसु, जो सुहो होइ मारुओ । तेण मे भज्जए अंगं, जायं सरणओ भयं ॥ १ ॥"
[उत्त० नियुक्तिः गा० १३०] एवं कथां कथयतोऽपि तस्य कुमारस्याऽऽभरणानि तेनाचार्येण गृहीतानि । अग्रे च वनस्पतिकायिकः कुमारः, सोऽपि तथैवाख्यत्, तदुक्ता कथा चेयम् - ____ एकस्मिन् वृक्षे केषाञ्चित्पक्षिणामावासोऽस्ति, तत्र बहूनि तेषामपत्यानि जातानि । अन्यदा वृक्षस्य मूलादुत्थिता वल्ली समन्ताद्वेष्टयन्ती वृक्षशिखरमारूढा । एकदा तामारुह्यसर्पस्तच्छिखां प्राप्तो नीडस्थानि पक्ष्यपत्यानि भक्षितवान् मातृ-पितृपक्षिभिरुक्तम् - १ "येन रोहन्ति बीजानि, येन जीवन्ति कर्षकाः । [कृषीवला:]
तस्य मध्ये मरिष्यामि, जातं शरणतो भयम् ॥२॥" । २ "यमहं दिवा च रात्रौ च, तर्पयामि मधुसर्पिषा । तेन ममोटजो दग्धो, जातं शरणतो भयम् ॥३॥" ३ "मया व्याघ्रात् भीतेन, पावकः शरणीकृतः । तेन दग्धं ममाङ्ग, जातं शरणतो भयम् ॥ ४॥" ४ ज्येष्ठा-ऽऽषाढयोर्मासयो र्यः शुभो भवति मारुतः । तेन मम भज्यतेऽङ्ग, जातं शरणतो भयम् ॥१॥