________________
परीषहाध्ययनम् २]
[५३ अत्रार्याषाढसूरिकथा -
वत्साभूम्यामाषाढभूतिसूरयस्तत्र गच्छे यो यः कालं करोति तं तं निर्जरयामासुः, अन्त्यसमये तेषामेवं कथयन्ति युष्माभिः स्वर्गे सुरीभूय मम दर्शनं देयम्, तेच स्वर्गे गच्छन्ति, परमाचार्याणां दर्शनं न ददति । तथा च सूरीणां परलोकशङ्का जायते । एकदैको विनेयः प्रकामं स्वभक्तः समाधिमरणसमये सूरिभिरेवमुक्तस्त्वया स्वर्गे देवीभूयाऽवश्यं मम दर्शनं देयम्, न प्रमाद्यम्, सोऽपि मृत्वा देवो जातः, परं विचित्ररचनानाट्यादिदर्शनेन व्यग्रत्वान्नात्रायातः । तावता सूरिभिरेवं चिन्तितं-नास्त्येव परलोकस्ततः कोऽपि नात्रागच्छति, यदि परलोकः स्यात्तदा मच्छिष्याः कृतप्रतिज्ञा अपि कथं न दर्शनं दद्युः ? ततो मयाद्य यावद् व्रतानि पालितानि, तपांसि तप्तानि, कष्टानि कृतानि, सर्वाण्यप्यनुष्ठानानि मुधा जातानि, मुधा मया भोगास्त्यक्ताः, वञ्चितोऽहमिति मिथ्यात्वं प्रतिपन्नाः, गच्छं मुक्त्वैकाकिन एव लिङ्गमात्रधरा निर्गताः । अत्रान्तरे तेन भक्तशिष्येण देवीभूतेन कियाद्दिनानि यावन्नाट्यादि विलोक्य गुरुप्रेम्णाऽत्रायातम्, मिथ्यात्वं गता गुरवो दृष्टा, तत्प्रतिबोधार्थं कस्यचिद् ग्रामस्य सीम्नि नाट्यं विचक्रे, तत्राचार्याः षण्मासान् यावन्नाट्यं पश्यन्तः क्षुधादिकं नानुभूतवन्तः नाट्यं च देवेन विसृष्टम्, आचार्या अग्रतश्चलिताः । ततस्तेनैव सुरेण तेषामाचार्याणां संयमपरीक्षार्थं षट्कायनामानः षट् दारकाः सर्वालङ्कारविभूषिता विकुर्विताः।
प्रथमं पृथ्वीकायिकः कुमारस्तेषामाचार्याणां दृष्टौ पतितः, आचार्या आहुः, भो बाल ! भूषणानि ममार्पय । स नार्पयति । तदनु सूरिभिरसौ गले गृहीतः ततश्च भयभ्रान्तो बालः प्राह-प्रभोऽहं पृथिवीकायिकः कुमारः, अस्यां रौद्राटव्यां त्वां शरणं श्रितः, भवादृशानामेवं कर्तुं न युक्तम् । हे स्वामिन् मदुक्तैका कथा श्रूयताम्, तथाहि - एकः कुलालः खानौ मृदं खनन् मृदाक्रान्तः एवं भणति -
"'जेण भिक्खं बलिं देमि, जेण पोसेमि नाइओ। सा मे मही अक्कमइ, जायं सरणओ भयं ॥ १ ॥"
[उत्त. नियुक्तिः गा. १२४] एतन्न्यायेन शरणागतस्यापि कथमेवं पराभवं करोषि ? सूरिभिरुक्तमतिपण्डितोऽसि बालेत्युक्त्वा तदङ्गाभरणानि गृहीतानि, पात्रे क्षिप्तानि, गतः पृथिवीकायिकः । स्तोकान्तरे गच्छद्भिराचार्यैर्द्वितीयोऽप्कायिकनामा बालको दृष्टः सोऽपि तथैवोवाच, तत्कथिता कथा चेयम् - __एकः पाटलनामा तालाचरः प्रकामं वाग्मी, सोऽन्यदा गङ्गाश्रोतसि प्रविष्टः तेन च हियमाणोऽसौ तटस्थजनेनाऽभाषि, हे पाटल ! प्राज्ञ ! किञ्चित् सूक्तं पठ? सोऽवादीत्
१“यया भिक्षां बलिं ददामि, यया पोषयामि ज्ञातिन् । सा मां मही आक्रामति, जातं शरणतो भयम् ॥१॥"