________________
५२]
[उत्तराध्ययनसूत्रे __ एवं पण्डितगुणानचिन्तयन् मूर्खगुणांश्चासतोऽपि चिन्तयन् ज्ञानावरणीयं कर्म बद्ध्वा दिवं गतः, ततश्च्युतो भरतक्षेत्रे आभीरपुत्रो जातः, क्रमेण परिणीतः तस्य पुत्रिका जाता, सा रूपवती । अन्यदाऽनेकाऽऽभीरा घृतभृतशकटाः किञ्चिन्नगरं प्रति गच्छन्ति, असावपि तत्सार्थे घृतभृतं शकटं गृहीत्वा चलितः, मार्गे सा पुत्री शकटखेटनं करोति । ततस्तद्रूपव्यामोहितैराभीरपुत्रैरपथे खेटितानि शकटानि, तानि सर्वाणि भग्नानि, तादृशं संसारस्वरूपं दृष्टवा सञ्जातवैराग्यः स आभीरस्तां पुत्रीमुद्वाह्य दीक्षां जग्राह, उत्तराध्ययनयोगोद्वहनावसरेऽसङ्ख्याऽध्ययनोद्देशे कृते तस्याऽऽभीरभिक्षोर्ज्ञानावरणोदयो जातः, न तदध्ययनमायाति ।आचाम्लान्येव करोति, उच्चैःस्वरेण तदध्ययननिर्घोषं करोति । एवं च कुर्वतस्तस्य द्वादशवर्षप्रान्तेऽज्ञानपरीषहं सम्यगधिसहमानस्य केवलज्ञानं समुत्पन्नम्, एवमज्ञानपरीषहे आभीरसाधुकथा । यस्य च ज्ञानाजीर्णं स्यात्तेनापि ज्ञानपरीषहो न सोढः ।
तत्रार्थे स्थूलभद्रकथा
यथा स्थूलभद्रस्वामी विहरन् बालमित्रद्विजगृहे गतः, तत्र 'तमदृष्टवा तद्भार्यां पृष्टवान् क्व ते पतिर्गतः ? सा प्राह परदेशे धनार्जनार्थं गतोऽस्ति । ततः स्वामी तद्गृहस्तम्भमूलस्थितं निधि पश्यन् स्तम्भाभिमुखं हस्तं कृत्वा 'इदमीदृशं स च तादृशः' इति भणित्वा गतः । ततः कालान्तरे गृहागतस्य विप्रस्य तद्भार्यया स्थूलभद्रस्वामिवचो ज्ञापितम्, तेन पण्डितेन ज्ञातमत्रावश्यं किञ्चिदस्ति । ततः खानितः स्तम्भः, लब्धो निधिः । एवं स्थूलभदेण ज्ञानपरीषहो न सोढः, शेषसाधुभिरपीदृशं न कार्यम् ॥२१॥ अथाज्ञानाद्दर्शनेऽपि कश्चित्संशयः स्यादतस्तत्परिषहः कथ्यते -
नत्थि नृणं परे लोए, इड्री वावि तवस्सिणो। अहवा वंचिओमित्ति, इइ भिक्खू न चिंतए ॥४४॥ अभूजिणा अस्थि जिणा, अदुवावि भविस्सई।
मुसं ते एवमाहंसु, इइ भिक्खू न चिंतए ॥ ४५ ॥ नूनमिति सम्भावनायां परलोको नास्ति, परलोके गतः कोऽपि नात्रागत्य वदति, तस्मात्प्रत्यक्षस्याभावान्नास्ति परलोकः, वाऽथवा तपस्विनोऽपि साधोरपिकाचिद्ऋद्धिरामपौषधि-विपुडौषधि-खेलौषधिप्रमुखा काचिन्नास्ति न दृश्यते, अथवा किं बहुना ? अहं वञ्चितोऽस्मि, ऋषिभिष्ठगितोऽस्मीति भिक्षुर्न चिन्तयेन्न विचारयेत् । ते जिनाः केवलिन एवमाहुः-कथयन्ति स्म तन्मृषा-तदसत्यम्, एवं तत् किं ? जिनास्तीर्थकराः केवलिनो वाऽभूवन्, पुनर्जिनाः सन्ति, साम्प्रतं-वर्तमानकाले महाविदेहक्षेत्रादौ सन्ति, अथवाऽग्रे भविष्यन्तीति यदूचुस्तदसत्यम्, प्रत्यक्षमदृश्यमानत्वात् । इति विचारे क्रियमाणेऽसम्यक्त्वसङ्गः स्यात्, तस्मादिति न विचारणीयम्, सम्यक्त्वपरीषहः सोढव्यः ॥ ४४-४५ ॥ १न तं दृष्टवा - L.॥