SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ [५१ परीषहाध्ययनम् २] अतस्तत्परीषहोऽपि सोढव्यः, इति कारणादज्ञानपरीषहमाह - निरझुगंमि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं ॥४२॥ तवोवहाणमादाय, पडिमं पडिवज्जओ । एवं पि विहरओ मे, छउमं न नियट्टई ॥ ४३ ॥ अहं निरर्थकेऽर्थाभावे सति मैथुनात्कामसुखाद्विरतो-निवृत्तः मैथुनग्रहणं दुस्त्यजत्वात्, यतोऽहं दुष्करं कार्यं कृतवान्, योऽहं सुसंवृतो जितेन्द्रियोऽपि साक्षात्स्फुटं धर्मवस्तुस्वभावं कल्याणं-शुभं पापकर्ममशुभं नाभिजानामि, यदि मैथुनानिवृत्तौ जितेन्द्रियत्वेऽपि काचिदर्थसिद्धिर्ज्ञानसिद्धिर्भवेत्तदा मम ज्ञानमुत्पद्येत, मम तु ज्ञानं नोत्पन्नं तदा वृथाहं मैथुनमत्यजम्, वृथैव चेन्द्रियजयमकरवम् पुनरित्थमपि न चिन्तयेत् । तपो-भद्र-महाभद्र-सर्वतोभद्रादिः, उपधानं-सिद्धान्तपठनोपचाररूपम्, एकभक्तनिर्विकृत्याऽऽचाम्लोपवासादिकमादायांगीकृत्य, पुनः प्रतिमां-भिक्षोरभिग्रहविशेषक्रियां द्वादशविद्यां प्रतिपद्यमानस्य ममैवं विहरतः साधुमार्गे विहारं कुर्वतोऽपि छद्मस्थज्ञानावरणादिकर्म न निवर्तते, अहं तपः करोम्युपधानं वहामि प्रतिमां च धरामि साधुमार्गे विहरामि तथापि केवली न भवामीति न विचारणीयम्, अयमज्ञानपरीषहः ॥ ४२-४३ ॥ अत्राऽज्ञानपरीषहे कथा - गङ्गातीरे द्वौ भ्रातरौ वैराग्याद्दीक्षां गृहीतवन्तौ, तत्रैको विद्वान् जातः, द्वितीयस्तु मूर्खः, यो विद्वान्, सोऽनेकशिष्याऽध्यापनादिना खिन्न एवं चिन्तयत्यहो धन्योऽयं मे भ्राता यः सुखेन तिष्ठति, निद्रादिकमवसरे कुर्वन्नस्ति, अहं तु शिष्याऽध्यापनादिकष्टे पतितोऽस्मीति चिन्तयन् काव्यमिदं चकार - "मूर्खत्वं हि सखे ममापि रुचितं यस्मिन् यदष्टौ गुणा, 'निश्चितो 'बहुभोजनोऽत्रपमना नक्तं दिवा "शायकः । ५कार्याकार्यविचारणांधबधिरौ मानापमाने समः, "प्रायेणामयवर्जितो “दृढवपुर्मूर्खः सुखं जीवति ॥ १ ॥" परं नैवं चिन्तयति - "नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वतां, येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद्विवेकरहितै भारभूतैनरैः ॥ २ ॥"
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy