________________
५०]
[उत्तराध्ययनसूत्रे अह पच्छा उइज्जंति, कम्मा नाणफला कडा ।
एवमस्सासि अप्पाणं, नच्चा कम्मविवागयं ॥४१॥ .. प्रज्ञापरीषहोऽपि द्विधा षोढव्यः । प्रज्ञाऽपकर्षपक्षे प्रज्ञाहीनत्वेऽर्थं वदति, येन केनचित्पुरुषेण 'कण्हुई' कस्मिंश्चित्सुगमेऽपि जीवादिप्रश्ने पृष्टः सन्नहं नाभिजानामि । से नूनं' इति तन्नूनं मया पूर्वं - पूर्वभवेऽज्ञानफलानि धर्माचार्यगुरुश्रुतनिन्दारुपाणि कृतानि, ततोऽहं प्रज्ञाहीनः सञ्जातोऽस्मि । अथाऽज्ञानफलानि कृतानि कर्माण्यपि पश्चादग्रेतनजन्मनि उदयं प्राप्यन्तीति कर्मवपाकं ज्ञात्वैवमात्मानमाश्वासय, उदयप्राप्तानां ज्ञानावरणकर्मणां विघाताय यत्नः कार्य इत्यात्मानमनुशासयेत्यर्थः।
अथ प्रज्ञाप्रकर्षे सत्येवं चिन्तनीयम् । येन कारणेन केनापि पुरुषेण कुत्रचित्प्रश्ने पृष्टः सन् अहं (सन्नहं) पुरुषप्रश्नोत्तरंजानामि, तत्प्रश्नस्योत्तरंददामि । तन्नूनं मया पूर्वजन्मनि ज्ञानफलानि कर्माणि कृतानि, ज्ञानं फलं येषां तानि ज्ञानफलानि श्रुतज्ञानाराधनादीनि । अथेदानी ज्ञानफलानि कर्माणि कृतानि पश्चादग्रेतनजन्मनि 'उइज्जंति' उदयं प्राप्स्यन्ति । 'कर्मविपाकं' कर्मणां विपाकं ज्ञात्वैवमात्मानं त्वमाश्वासय. भो शिष्य ! न तु प्रज्ञाप्रकर्षे गर्वं कुर्या इत्यर्थः प्रज्ञाप्रकर्षेऽयमर्थः कार्यः ।
अतो हि प्रज्ञोदये हर्षो न विधेयः, प्रज्ञाऽभावे विषादे कृते ह्यार्तध्यानपरत्वं न स्यात् ॥ ४०-४१॥
प्रज्ञाप्रकर्षोपरि कालिकाचार्यसागरचन्द्रयोः कथा -
यथा-उज्जयिनीतः कालिकाचार्याः प्रमादिनः स्वशिष्यान् मुक्त्वा सुवर्णकुले स्वशिष्यसागरचन्द्रस्य समीपे प्राप्ताः ।सागरचन्द्रस्तु तानेकाकिनः समायातान् नोपलक्षयति, कालिकाचार्या अपि न किञ्चित्स्वरूपोपलक्षणं दर्शयन्ति । अन्यदा सागरचन्द्रेण पर्षदि सिद्धान्तव्याख्यानं प्रारब्धम्, चमत्कृता लोकाः, सिद्धान्तव्याख्यानं प्रशंसन्ति, कालिकाचार्याणां सागरचन्द्रेण पृष्टं मद्व्याख्यानं कीदृशं ? तैरुक्तं भव्यम्, तेन चाचार्यैः समं तर्कवादः प्रारब्धः, परं तुल्यतया वक्तुं न शक्नोति भृशं स चमत्कृतः । अथ शिष्यास्ततः शय्यातरेण तिरस्कृतास्त्रपां प्राप्ताः, स्वगुरुं गवेषयन्तश्चलिताः, कालिकाचार्याः समायान्तीति प्रसिद्धि कुर्वाणाः सुवर्णभूमौ प्राप्ताः, सागरचन्द्रः कालिकाचार्याः समायान्तीति वृद्धस्य पुरः प्रोक्तवान्, वृद्धः प्राह मयापि श्रुतमस्ति, सागरचन्द्रस्तेषां सन्मुखमायातः, तस्य तैः पृष्टंकिमत्र कालिकाचार्याः समायाताः सन्ति न वा ? तेनोक्तमेकोऽत्र वृद्धः समायातोऽस्ति, नापरः कोऽपीति । ___ तेऽप्युपाश्रयान्तः समायाता: उपलक्षिताः कालिकाचार्याः, प्रणतास्तैः, सागरचन्द्रेण पश्चादुपलक्ष्य तेषां मिथ्यादुष्कृतं दत्तम्, हा मया श्रुतलवगर्वाध्मातेन श्रुतनिधयो यूयमाशातिता इति च कथितम् । कालिकाचार्यैरुक्तं हे वत्स ! श्रुतगर्वो न कार्यः । यथा सागरचन्द्रेण श्रुतमदः कृतस्तथाऽपरैर्न श्रुतमदः कार्यः । अथ प्रज्ञाप्रकर्षे गर्वः, प्रज्ञाऽभावे दैन्यचिन्तनम्, इत्युभयथाऽज्ञानम् ।