________________
परीषहाध्ययनम् २ ]
[ ४९
एतावता राज्ञा निमन्त्रितानाहारादिभ्यः प्रार्थितान् द्रव्यलिङ्गिनः साधून् न कीर्तयेदित्यर्थः ॥ ३८ ॥ पुनः साधुः कीदृशो भवेत्तदाह
अनुत्कशायी- सत्कारादिना हर्षरहितस्तादृशो भवेत्, नोत्कोऽनुत्कः शेते इत्येवंशीलोअनुत्कशायीति शब्दार्थः । यत्र कश्चिदासनदानाभ्युत्थान-निमन्त्रणादिकं करोति तत्र गमनायोत्को न भवति-उत्कण्ठितो न भवति । अथवाणुकषायी, सत्कारादिकं यो न करोति तस्मै क्रोधमकुर्वाणोऽक्रोधः, पुनः कीदृश: ? अल्पेच्छो धर्मोपकरणमात्रधारी, अनेन निर्लोभत्वमुक्तम्, पुनः कीदृश: ? ' अन्नाएसी' अज्ञातैषी जाति-कुल- सद्रव्य-निर्द्रव्यादिनाऽपरीक्षितोऽज्ञातस्तादृशं गृहस्थमाहाराद्यर्थमेषयतीत्येवंशीलमज्ञातैषी । पुनः कीदृशो भवेत् ? अलोलुपः सरसाहारे लाम्पट्यरहितः, पुनः साधुरन्यान् सरसाहारभक्षणासक्तान् वीक्ष्य रसेषु नानुगृध्येत् - सरसाहारभिक्षां नाभिकाङ्क्षेदित्यर्थः ॥
पुन: 'पन्नवं ' इति प्रज्ञावान् साधुर्नानुतप्येत, अन्येषां सत्कारं दृष्ट्वा 'हा मम कोऽपि सत्कारं न करोति किमर्थमहं प्रव्रजित' इति चिन्तापरो न भवेत् ॥ ३९ ॥
अत्र श्राद्धश्रमणयोः कथा -
यथा मथुरायामिन्द्रदत्तः पुरोहितोऽस्ति स जिनशासनप्रत्यनीकः स्वगवाक्षस्थः सन्नधो निर्गच्छतो जैनयतेर्मस्तकोपरि निजचरणं विततं करोति एवं निरन्तरं कुर्वाणं तं दृष्टवा साधुर्न aastu कुप्यति, परमेकः श्रावकः कुपितस्तत्पादच्छेदप्रतिज्ञामकरोत्, अन्यानि तच्छिद्राण्यलभमानेन तेन श्रावकेण तत्स्वरूपं गुरोः पुरः कथितम्, गुरुणोक्तं सह्यते सत्कारपुरस्कारपरीषहः साधुनेति । तेन स्वप्रतिज्ञा कथिता, गुरुभिरुक्तमस्य गृहे किं जायमानमस्ति ? तेनोक्तं नवीनप्रासादे राजा निमन्त्र्यमाणोऽस्ति पुरोहितेन, गुरुभिरुक्तं तर्हि त्वं तत्प्रासादे प्रविशन्तं राजानं करे धृत्वा प्रासादोऽयं पतिष्यतीति कथयेः, अहं च प्रासादं विद्यया पातयिष्यामि । ततस्तेन तथा कृते प्रासादः पतितः । राज्ञोक्तं किमिदं जातं ? श्रेष्ठिनोक्तं हे महाराज ! अनेन तव मारणाय कपटं मण्डितमभूत् । ततो रुष्टेन राज्ञा स पुरोहितस्तस्य श्रेष्ठिनोऽर्पितः, तेन श्रेष्ठिनेन्द्रकीलके तस्य पादं क्षिप्त्वा प्रतिज्ञा पूरणार्थं च पिष्टमयं पादं कृत्वा छिन्नवानुक्तवांश्च सर्वं तत्स्वरूपम्, पुरोहितेनोक्तमतः परं नैवेदृशं करिष्यामीति जातानुकम्पेन श्रावकेण स मुक्तः । अत्र सत्कार - पुरस्कारपरीषहः सोढव्यः साधुभि:, श्रावकेण तु न सोढव्य इति ॥ १६ ॥
अथ सत्कारे सति प्रज्ञाप्रकर्षापकर्षविह्वलत्वं न विधेयं, अतः प्रज्ञापरीषहोऽपि सोढव्यः ।
の
से नूणं मए पुवि, कम्माऽनाणफला कडा ।
हं नाभिजाणामि, पुठ्ठो केणइ कण्हुई ॥ ४० ॥