________________
४८]
[ उत्तराध्ययनसूत्रे किलिन्नगाये मेहावी, पंकेण वा रयेण वा । धिंसु वा परियावेणं, सायं नो परिदेवए ॥ ३६ ॥ वेइज्ज निज्जरापेही, आरियं धम्ममणुत्तरं ।
जाव सरीरभेउत्ति, जल्लं काएण धारए ॥ ३७ ॥ मेधावी साधुः 'धिंसु' ग्रीष्मकाले वाशब्दाच्छरद्यपि परितापेन-गाढोष्मणा, पङ्केन प्रस्वेदादार्दीभूतमलेन अथवा रजसार्दमलेन परिशुष्य काठिन्यं प्राप्तेन धूल्या वा क्लिन्नगात्रः सन्-बाधितशरीरः सन् सात-सुखं न परिदेवेत, मलापहारात्सुखं न वाञ्छेत् । सातार्थं विलापं न कुर्यादित्यथः ॥३६॥
तदा किं कुर्यादित्याह - 'वेयज्जति' निर्जरापेक्षी-कर्मक्षयमीप्सुः साधुस्तावत्कायेन जल्लं धारयेत्, देहेन मलं धारयेत्, पुनः ‘वेइज्ज' मलपरीषहं वेदयेत-सहेत, तावत्कथं ? यावच्छरीरस्य भेदः-शरीरस्य पातः स्यात्, साधुः कीदृशः सन् ? आर्यं श्रुतचारित्ररूपं धर्म प्रपन्नः सन्नित्यध्याहारः, कीदृशं धर्मम् ? अनुत्तरं-सर्वोत्कृष्टम् ॥ ३७॥
श्राद्धसुनंदहट्टे भेषजार्थी साधुस्तत्कथा यथा - चम्पायां सुनन्दो वणिग्दानवान् । अन्यदा मलाविलं साधुं दृष्ट्वा मलधारिणं मुक्त्वा शेषं सर्वसाधूनां भव्यमिति जुगुप्सां कृतवान्, मृत्वा चाऽसौ कौशाम्ब्यामिभ्यपुत्रोऽभूत्, स प्रस्तावे दीक्षां गृहीतवान् । तदानीं तत्कर्मोदयेन देहे दुर्गन्धोऽभूत्, स यतिर्यत्र यत्र याति तत्र तत्रोड्डाहो भवति ।
ततो गुरुभिस्तस्य भ्रमणं निषिद्धम् तेन रात्रौ जिनदेवताऽऽराधनार्थं कायोत्सर्गः कृतः, तुष्टदेवतया सुगन्धीकृतः, तथाप्युड्डाहभवने पुनरप्याराधितया देवतया सर्वसमानगन्धः कृतः । अनेन हि साधुना जल्लपरीषहो देवताराधनेन न सोढः । एवमन्यैः साधुभिर्न कार्यम् ॥१८॥ ___ अथ समलः साधुः शुचीन् सत्क्रियमाणान् दृष्टवा सत्कारादि न स्पृहयेत्, अतस्तत्परीषहमाह
अभिवायणमब्भुट्ठाणं, सामी कुज्जा निमंतणं । जे ताइं पडिसेवंति, न तेसिं पीहए मुणी ॥ ३८ ॥ अणुक्कसाई अपिच्छे, अन्नाएसी अलोलुए।
रसेसु नाणुगिज्झिज्जा, नाणुतप्पिज्ज पण्णवं ॥३९॥ मुनिस्ते इति तेभ्यो न स्पृहयेत्, यत एते धन्या इति न चिन्तयेदित्यर्थः, तेभ्यः केभ्यः ? ये तानि प्रतिसेवन्ते, तानी कानि ? स्वामी राजादिः, अभिवादनं-नमस्कारमस्मभ्यं कुर्यात्, अथवा स्वाम्यभ्युत्थानमस्मभ्यं कुर्यादशनादिसन्मानं कुर्यात्, पुनरस्माकं निमन्त्रणं कुर्यात् ।