SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ चतुर्थमसंस्कृताख्यमध्ययनम् ४] [९१ साधुः संयममार्गे पदानि धर्मस्थानानि परिशङ्कमानश्चारित्रदूषणानि विचारयंश्चरेत्, संयममार्गे विहरेत्, किं कुर्वाणः ? यत्किञ्चिदपि गृहस्थपरिचयादिकं प्रमादपदं दुश्चिन्तनादिकं बन्धस्य हेतुत्वात्पाशमिव मन्यमानः, पुनः साधुर्लाभान्तरे जीवितं बृहयित्वा पश्चात्परिज्ञाय मलापध्वंसी स्यात् । कोऽर्थः? एकस्माल्लाभादन्यो लाभो लाभान्तरम् तस्मिन् लाभान्तरे सति ज्ञान-दर्शन-चारित्रादीनां लाभविशेषे सति जीवितं शरीरं बृंहयित्वाआहारभाटकदानेन धारयित्वा पश्चाल्लाभप्राप्तेरभावं (ज्ञपरिज्ञया) कृत्वेदं मम शरीरम्, अतः परं ज्ञानादिगुणार्जकं नास्तीति परिचिन्त्य प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्यायाष्टकर्मलक्षणमलस्यापध्वंसको-निवारकः स्यात् ॥७॥ अत्र मण्डिकचौरोदाहरणमुत्तराध्ययनबृहवृत्तिगतं प्राकृतं संस्कृतीकृत्य लिख्यते बेन्नातटे मण्डिकनामा तुन्नकश्चौरः परद्रव्यहरणासक्त आसीत् । स च दिवसे राजमार्गमध्यस्थः पादयोर्मे गण्डानीति वदन् बद्धपट्टकपादौ मुखेन भृशमाक्रन्दन् तुत्रकशिल्पमुपजीवति, रात्रौ च व्यवहारिगृहे क्षात्रं दत्वा बहुधनं गृह्णाति, नगरोद्यानान्तःस्थितभूमिगृहकूपके सर्वं क्षिपति, तत्र चास्य भगिनी कन्या तिष्ठति, यांश्च भारवाहकानसावानयति तान् सर्वानेषा स्वयं पादशौचादिबहूपचारपूर्वकं भोजनपक्तावुपवेश्य विषमिश्रितभोजनदानेन मारयति, अपरकूपान्तर्निक्षिपति च । एवं काले व्रजति सति तेन चौरेण तन्नगरं भृशं मुषितम् । अन्यदा तन्नगरे मूलदेवो राजा राज्ये उपविष्टः, स कथं तत्र राजा संवृत इति तदाख्यानमुच्यते____ उज्जयिन्यां नगर्यां सर्वगणिकाप्रधाना देवदत्ता नामा गणिकास्ति, तस्या गृहेऽचलो नाम व्यवहारिपुत्रः परदेशायातो भोगान् भुङ्क्ते, मार्गितमर्थं च ददाति, तस्या एव गृहे परदेशायातो राजपुत्रो मूलदेवोऽतिरूपसौभाग्यस्तयैव गुणबुद्धया मानितः, अचलप्रच्छन्नमायाति, भोगानपि च भुङ्क्ते, सा तु मूलदेवेन सहैव प्रेमवती बभूव, परमचलस्तत्स्वरूपं न जानाति । एकदा देवदत्ताजनन्योक्तं- हे पुत्रि ! किमनेन मूलदेवेन निःस्वेन ? अचलमेव भज, मूलदेवं त्यज । देवदत्ता प्राहायं पण्डितोऽतीवसौन्दर्यादिगुणवान्, जननी प्राहास्य मूलदेवस्य निःस्वत्वेन सर्वेऽपि गुणा गताः, अचलस्य च सस्वत्वेन सर्वेऽप्यौदार्यादिगुणाः सन्ति, यस्यौदार्यं तस्य सर्वगुणाधारत्वम्, चेन्न मन्यसे तदास्य मूलदेवस्याचलस्यापि चौदार्यपरीक्षां कुरु। ततो देवदत्तयैका दासी मूलदेवस्य पाश्चे प्रेषिता, एका चाचलस्य पायें, द्वयोरपि दासीद्वयं प्रत्येकमेवमुवाच देवदत्तेक्षुभक्षणं कर्तुमीहते, ततो मूलदेवेनेक्षुयष्टिद्वयं गृहीत्वा त्वचमपनीय शकलानि कृत्वा कर्पूरचूर्णवासनां दत्वा पवित्रभाजने क्षिप्त्वा प्रेषितानि, देवदत्ताम्बां प्राह पश्य मूलदेवस्य विवेकितां तदैवाचलेनेक्षुयष्टिभृतं शकटं प्रेषितम्, अक्का देवदत्तां प्रत्याह-पुत्रि पश्याचलस्यौदार्य, सा प्राह-अहं किं करिण्यनेन ज्ञाता यस्यां कृते तेनासंस्कृतेक्षुयष्टिभृतं शकटं प्रेषितम् ?
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy