________________
९२]
[ उत्तराध्ययनसूत्रे
अथाक्का मूलदेवस्य द्वेषिण्यचलपार्श्वे गत्वा देवदत्ताया मूलदेवासक्तस्वरूपमूचे, अचलेनोक्तं तथा कुरु यथाहं मूलदेवं गृह्णामि, तयोक्तमवश्यं मया तद्भोगावसरो ज्ञाप्यः, अचलेन तस्या दीनाराष्टशतं दत्तम्, सा गृहे गत्वा देवदत्ताया इदमकथयदचलोऽद्य त्वरितकार्ये समुत्पन्ने क्वचिद् ग्रामे चलितोऽस्ति, सोऽद्य नायास्यति, तथाप्यद्यदिनसत्कं भाटकं प्रेषितमस्ति, एवमुक्त्वा दीनाराष्टशतं तया देवदत्ताया दत्तम्, देवदत्तयापि मूलदेवस्तदानीमेवाकारितः, सोऽप्यागतस्तस्याः शयनीये सुप्त्वा भोगे प्रवृत्तः, तस्यां वेलायां तयाक्कया मूलदेवदेवदत्तासम्भोगस्वरूपमचलस्य ज्ञापितम्, अचलोऽपि सपरिवारस्तत्रायातः, देवदत्ता तं सपरिवारमायातं दृष्ट्वा मूलदेवं शयनीयादधश्चिक्षेपेतस्ततो वस्त्राणि विस्तारयामास च । अचलस्तु द्वारि सपरिवारं मुक्त्वा तद्वासगृहान्तर्गत्वा शयनीये उपविष्टः, देवदत्ता तु न किञ्चिदुवाच, नापि तस्य किञ्चिद्विलेपनाद्युपचारं चकार। अचलेन शयनीयाधः प्रविष्टो मूलदेवो ज्ञातः, स तस्या इदमूचेऽद्य मयात्रस्थेनैवाभ्यङ्गनस्नाने करिष्यते, देवदत्तयोक्तं शयनीयवस्त्रविनाशो भविष्यति, स आख्यत्तवापूर्ववस्त्रसहितमपूर्वं शयनीयं दास्यामीत्युक्त्वा तत्रैवाभ्यङ्गनं स्नानं च चकार । तन्मलक्लिन्नो मूलदेवः शय्याधःस्थ इतस्ततश्चलन्नचलेन शयनीयवस्त्रमपसार्य केशेषु गृहीत्वा निष्कासितः, उक्तमुच्चस्वरेण रे याहि, त्वं मया जीवन्नेव मुक्तः, अपराधस्तु तवेदृशोऽस्ति यत्साम्प्रतमेव त्वं मया हन्यसे, परं कृपया त्वं मया मुच्यसे, त्वमपि कदाचिन्ममापराधे ईदृशो भूयाः ।
,
एवमचलेनोक्ते लज्जितो मूलदेवः कुमार उज्जयिन्या निर्गतो बेन्नातटमार्गे प्रस्थितः, तदा तस्यैकः पुरुषो मिलितः, मूलदेवेन पृष्टं क्व त्वं यास्यसि ? तेनोक्तं बेन्नातटे यास्यामि, मूलदेवेनोक्तमहमपि तत्रैव प्रस्थितोऽस्मि, आवां सहैव व्रजावः, तेनोक्तमेवं भवत्विति द्वावपि सहैव प्रस्थितौ तस्य पुरुषस्य शम्बलं वर्तते, मूलदेवस्य किमपि शम्बलं नास्ति, अन्तराटवी समायाता, द्वावप्यटव्यां प्रविष्टौ, मूलदेवश्चिन्तयत्येष मे शम्बलविभागं करिष्यति, स च भोजनसमये स्वयं भुङ्क्ते, न किञ्चिद्ददाति, मूलदेवस्त्वद्यानेन न किञ्चिद्दत्तं परं कल्ये दास्यतीत्याशयैवाग्रतो गच्छति । एवं दिनत्रयं यावन्मूलदेवेन न किञ्चिल्लब्धं न किञ्चिद्भुक्तम् । चतुर्थदिने मूलदेवेन स पुरुषः पृष्टोऽत्र क्वचित्प्रत्यासन्नो ग्रामोऽस्ति न वा ? तेनोक्तमितस्तिर्यक्प्रदेशे नातिदूरे ग्रामो वर्तते, परमहं तत्र न यास्यामि, अग्रे यास्यामीत्युक्त्वा स पुरुषोऽग्रे चलितः, मूलदेव एकाक्येव तत्र गतः, भिक्षां भ्रमता च मूलदेवेन राद्धाः कुल्माषा लब्धाः, तान् वस्त्राञ्चले गृहीत्वा मूलदेवो ग्रामाद्वहिर्याति तावता मासोपवासपारणके यतिरेको भिक्षार्थं ग्रामान्तः प्रविशन् मूलदेवेन दृष्टः, भक्त्युल्लासेन ते कुल्माषा मूलदेवेन तस्मै साधवे दत्ताः, साधुरपि द्रव्य-क्षेत्र - काल-भावशुद्धांस्तान् गृहीतवान्, मूलदेवेन परमया भक्त्या भणितम्
""धन्नाणं खु नराणं, कुम्मासा हुंति साहुपारणए" ।
१ "धन्यानां खलु नराणां, कुल्माषा भवन्ति साधुपारणके ॥ "
[ उप० पद० गा० ११ वत्त्यां गा० ६१ ]