SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ चतुर्थमसंस्कृताख्यमध्ययनम् ४] [९३ अथ तत्प्रदेशाधिष्ठात्र्या देव्या मूलदेवस्योक्तं वत्स ! एतस्या गाथाया द्वितीयार्धे यन्मार्गयसि तद्ददामीति । मूलदेवेन गाथाद्वितीयामिदं कृतम् - "गणिअं च देवदत्तं, दंतिसहस्सं च रज्जं च ॥ १ ॥ [उप० पद० गा० ११ वृत्यां गा० ६२] देवतया भणितमेतत्तवाचिरेणैव भविष्यति । ततो मूलदेवो बेन्नातटे गतः, देश्यकुट्यां सुप्तः, तत्र कार्पटिका अपि बहवः सुप्ताः सन्ति, तेषां मध्ये एकेन कार्पटिकेन स्वमुखे प्रविशंश्चन्द्रो दृष्टः, तादृश एव स्वप्नो मूलदेवेन दृष्टः, कार्पटिकेन तु प्रातरुत्थाय गुरोः पुरः स्वप्नः उक्तः, गुरुणापि त्वमद्य घृतगुडसहितं मण्डकं प्राप्स्यसीति बभाषे,मूलदेवस्तत उत्थाय नगरान्तः स्वप्नपाठकगहे गत्वा घनं विनयं कृत्वा स्वप्नपाठकाय स्वस्वप्नमाचख्यौ । तेनोक्तं सप्तमदिवसे तव राज्यं भविष्यतीति । __तस्मिन्नवसरे तत्रापुत्रो राजा मृतः, सामन्तैर्मन्त्रिभिश्च पट्टाश्वोऽभिषिक्त सप्तमे दिवसे मूलदेवसमीपेऽश्वः समागत्य हेषारवं चक्रे, स्वपृष्टौ च मूलदेवमध्यारोपितवान्, सामन्ताद्यैर्योग्योऽयमिति कृत्वा राज्येऽभिषिक्तः, मूलदेवस्तत्र सहस्रदन्तिराज्यं प्राप्तः, उज्जयिनीनृपेण सार्धं प्रीतिं चकार, अनेकदव्यलक्षप्राभृतानि प्रेषितवान् । एकदा मूलदेवेन तत्पार्श्वे देवदत्ता मागिता, तेन प्रीतिपरवेशन सा प्रेषिता, मूलदेवेन स्वपट्टराज्ञी कृता, तया समं यथेष्टं मूलदेवो भोगान् भुक्ते। अन्यदा तत्र समुद्रमार्गादचलः समायातः, माण्डविकैः शुल्कचौर्याद्वद्धो मूलदेवराज्ञः पुर आनीतः, मूलदेवेन राज्ञा स उपलक्षितः, कथितं च त्वं मामुपलक्षयसि ? स आह कस्त्वां नोपलक्षयति ? त्वं महाराजः, मूलदेवेनोक्तं सोऽहं मूलदेव इत्युक्त्वा बन्धनान्मोचितो विसर्जितश्च । एवं मूलदेवो निश्चिन्तस्तत्र राज्यं करोति । ___स मूलदेवो नगरलोकेभ्यश्चौरपराभवं ज्ञात्वान्यं नगररक्षकं कृतवान्, सोऽपि चौरं ग्रहीतुं न शक्तः, तदा मूलदेवः स्वयं नीलपट्टे प्रावृत्त्य रात्रौ निर्गतः, इतस्ततो भ्रमन् यत्र स तुनको मण्डिकचौरोऽस्ति तत्रैवायातस्तत्पार्श्वे च कपटनिद्रया सुप्तः, अपरेऽपि दारिद्मभग्नाः पुरुषास्तत्र सुप्ताः सन्ति, मण्डिकेन तावदाक्रन्दं कृतं यावन्मध्यरात्रिः समायाता, तदानीं तत उत्थाय सर्वेऽप्युत्थापिताः,मूलदेवोऽप्युत्थापितः, आयान्तु मया सार्धं सर्वानपि धनवतः करोमीति वदन् तैः सार्धं पुरान्तर्धान्त्वैकस्य धनिकस्य गृहे क्षात्रं दत्वा बहूनि धनानि निष्कास्य सर्वेषां तेषां शिरसि पोट्टलिका दत्ताः, मूलदेवस्य शिरस्येकः पोट्टलिको दत्तः, सर्वानप्यने कृत्वा स्वयं खड्गपाणिः पृष्टौ स्थितः, श्मशानान्तर्भूमिगृहे सर्वेऽपि प्रवेशिताः, ततः पोट्टलकधनानि कूपान्तश्चिक्षेप, सर्वेषामपि तेषां पादशौचं तत्रस्थया चौरभगिन्या दत्तम्, - स्वयं पादक्षालनं चक्रे, मूलदेवपादक्षालनावसरे तत्पादतले पद्म दृष्ट्वा सौकुमार्यादिना कोऽप्ययं महान् राजेति ज्ञातवती, नायं मया विनाश्य इति मत्वा तया मूलदेवस्य नेत्रसंज्ञा कृता, ततः स मूलदेवो नष्टः । १."गणिकां च देवदत्तां, दन्तिसहस्त्रं च राज्यं च ॥"
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy