________________
९४]
[ उत्तराध्ययनसूत्रे
पश्चात्तया चौरस्य स्वभ्रातुरुक्तमेष पुरुषो नष्टः, भ्रातापि गृहीतखड्गस्तत्पृष्टौ चलितः, मूलदेवोऽपि तं प्रत्यासन्नमागतं दृष्ट्वा क्वचित्स्थाने बब्बरपाषाणशिवलिङ्गं स्वोत्तरीयवस्त्रेणाच्छाद्य स्वयमंतरितः स्थितः, कोपान्धेन चौरेण तत्रागत्य स एवायं पुरुष इति कृत्वा शिवलिङ्गमस्तके कङ्कलोहमयखड्गप्रहारो दत्तः, तच्छिवलिङ्गं द्विधा कृतम्, हतो मया स पुरुष इति जानन् स्वस्थाने गत्वा सुप्तः, मूलदेवोऽपि स्वस्थाने गत्वा सुप्तः ।
प्रभाते स मण्डिकतुन्नकश्चतुष्पथान्तः समागत्य तथैवाक्रन्दं कुर्वन् स्थितः राज्ञा च प्रभाते स्वपुरुषैः स आकारितः, राजपुरुषेषु तत्रायातेषु तेन चिन्तितं तदानीं मया स पुरुषो न हतः, किन्तु दृषदावेव खड्गप्रहारो दत्तः, यो नष्टः पुरुषः सोऽवश्यमत्रत्यो राजा, तेनैव ममाह्वातुं पुरुषाः प्रेषिताः, यामि तावत्तत्र, अर्थतो न नष्टुं शक्यते, यद्भाव्यं तद्भवत्विति चिन्तयन्नेवासौ तैः पुरुषैः शनैः शनैर्व्रजन् राजसभायामानीतः, राज्ञाप्यसावभ्युत्थानादिना मानितः, अर्धासने निवेशित आश्वासितश्च, स्वनेपथ्यसमस्तस्य नेपथ्यो दत्तः, स्वभोज्यसमं भोजनं कारितः ।
अन्यदा तस्योक्तं स्वभगिनीं मम देहि, तेन सा दत्ता, सा परिणीता, राज्ञः प्रेमपात्री कृता । अन्यदा राज्ञोक्तं द्रव्यं मे विलोक्यते, त्वं धनी स्वकीयोऽसि, ततो मे द्रव्यं देहि ? तव चिन्ता तु ममैवास्ति, तेन राजमार्गितं द्रव्यं दत्तम्, स राजपार्श्वे सुखेन तिष्ठति । अन्यदा पुनरपि राज्ञा द्रव्यं मार्गितम्, तेन दत्तम्, राज्ञा तस्य महान् सत्कारः कृतः, पुनरपि राज्ञा द्रव्यं मार्गितम्, तेनापि तथैव दत्तम् । एवमन्तरान्तरा राज्ञा सत्कारपूर्वकं तस्य द्रव्यं गृहीतम्, भगिनी पृष्टा, अथास्त्यस्य किञ्चिद्धनम् ? सा प्राहायं रिक्तीकृतस्त्वया, नातः परमस्य किञ्चिद्धनमस्तीति श्रुत्वा राज्ञासौ मण्डिकश्चौरः शूलायामारोपितः ।
अत्रायमुपनयो यथायमकार्यकार्यपि मण्डिकश्चौरो मूलदेवेन यावल्लाभं तावत्रक्षितस्तथा धर्मार्थिनापि संयमलाभहेतुकं जीवितं रक्षणीयम्, यावत्कालं संयमलाभस्तावत्कालं जीवितमौषधादिभिः कृत्वा रक्षणीयम्, नान्यथेति ।
छंद निरोहेण उवेइ मोक्खं, आसे जहा सिक्खियम्मधारी । पुव्वाइं वासाइं चरप्पमत्तो, तम्हा मुणी खिप्पमुवेइ मुक्खं ॥ ८ ॥
-
साधुश्छन्दो निरोधेन मोक्षमुपैति, गुर्वादेशं विनैव प्रवर्तनं छन्दस्तस्य निरोधो निवारणं तेन गुर्वाज्ञया प्रवर्त्तनेन निर्भयस्थानं प्राप्नोति, को यथा ? शिक्षितवर्मधार्यश्वो यथा, यथाशब्द इवार्थे शिक्षा जाताऽस्येति शिक्षितः, वर्म - सन्नाहं धरतीति वर्मधारी, सन्नाहधारकः, एतादृश सुशिक्षित: कवचधारी चाश्वोऽश्ववारशिक्षायां स्थितश्छन्दो निरोधेन स्वेच्छागमननिषेधेन मोक्षं प्राप्नोति, निर्भयं स्थानं प्राप्नोति, शत्रुभिर्हन्तुं न शक्यते, हे साधो ! पूर्वाणि पूर्वप्रमितानि वर्षाणि यावदप्रमत्तः सन् चर-साधुमार्गे विहर। तस्मादप्रमत्तविहारान्मुनिः क्षिप्रं मोक्षमुपैति ॥ ८ ॥
अत्र कुलपुत्र शिक्षिताश्वद्वयोदाहरणं
एकेन राज्ञा द्वयोः कुलपुत्रयोः शिक्षणार्थमश्वौ दत्तौ, एकेन कुलपुत्रेण प्रथमो धावनवल्गनादिकलाः शिक्षितः, द्वितीयस्तु द्वितीयेन कुलपुत्रेण न शिक्षितः, सङ्ग्रामावसरे
-