SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ [९५ चतुर्थमसंस्कृताख्यमध्ययनम् ४] प्रथमोऽश्वोऽथक्कः पोत इव सङ्ग्रामसागरमवगाह्य पारङ्गतः सुखी बभूव, द्वितीयस्तु सङ्ग्राममध्य एव मृतः, अत्रायमुपनयः-यथासावश्वः कुलपुत्रेण शिक्षितस्तथा धर्मार्थ्यपि स्वातन्त्र्यविरहितो गुरुशिक्षितः शिवमाप्नोति ॥८॥ स पुव्वमेवं न लभिज्ज पच्छा, एसोवमा सासयवाइयाणं । विसीयई सिढिले आउयंमि, कालोवणीए सरीरस्स भेए ॥९॥ यः पुरुषः पूर्वमेवाप्रमत्तत्वं न लभेत, स पुरुष: पश्चादपि पूर्वमिवाप्रमत्तत्वं न लभेत, एषा शाश्वतवादिनां निरुपक्रमायुषामुपमायुक्तिः यादृशो जीवः पूर्वं स्यात्तादृशः पश्चादपि स्यादिति शाश्वतवादिनो वदन्तीत्यर्थः । आयुषि शिथिले जाते सति शरीरस्य भेदे कालेनोपनीते सति-मरणे निकटे समागते सति विषीदति-विषण्णो भवति, अतःकारणात्पूर्वमपि पश्चादपि च न प्रमाद्यम् ॥९॥ खिप्पं न सक्केइ विवेगमेडं, तम्हा समुट्ठाय पहाय कामे । समिच्च लोगं समया महेसी, अप्पाणरक्खी चरप्पमत्तो ॥१०॥ हे भव्य ! क्षिप्रं-शीघ्र विवेकं-द्रव्यभावेन सङ्गत्यागरूपमेतुं-प्राप्तुं भवान्न शक्नोतिन समर्थो भवति, तस्मादात्मरक्षी सन्नप्रमत्तश्च सन् त्वं विचर । किं कृत्वा ? समुत्थाय सम्यगुद्यम विधाय, पुनः किं कृत्वा ? कामानिन्द्रियविषयान् प्रकर्षेण हित्वेति प्रहायत्यक्त्वा, पुनः किं कृत्वा ? लोकं-प्राणिसमूहं समया शत्रुमित्रोपरि साम्यभावेन समित्यसम्यग् ज्ञात्वा ॥१०॥ अत्र ब्राह्मणीकथा - एको ब्राह्मणः परदेशे गत्वा सर्वशास्त्रपारगो भूत्वा स्वदेशे समायातः, तस्य प्रकामं पाण्डित्यं दृष्ट्वैकेन ब्राह्मणेन कन्या दत्ता, तेन परिणीता, सच लोके भृशं दक्षिणां लभते, धनवान् जातः । तस्या भार्यायास्तेन बहून्याभरणानि दत्तानि, सापि तानि स्वाङ्गे परिहितान्येव रक्षति, न चागात्कदाचिदप्युत्तारयति, तेनैकदा तस्याः कथितमेष तुच्छग्रामोऽस्ति, नित्यमाभरणपरिधानमयुक्तम्, कदाचिद्यद्यत्र चौराः समायान्ति तदा तवाङ्गकदर्थना भवति, सा प्राह यदा चौराः समायास्यन्ति तदा त्वरितमङ्गादाभरणान्यहमुत्तारयिष्यामि। अन्यदा तस्या गृह एव चौराः समायाताः, सा तदानीं निबिडमङ्गलग्नान्याभरणानि स्वाङ्गादुत्तारयितुमसमर्था तथैव स्थिता, तस्याः साभरणान् पाण्याद्यवयवांश्छित्वा तैर्गृहीताः, सा च महती कदर्थनां प्राप्य मृता।एवमन्येऽपि प्राकृतकर्मविपाककाले विवेकमेतुं न शक्नुवन्ति । 'समिच्चलोगं समया महेसी, अप्पाणरक्खी चरप्पमत्तो ।' अत्र प्रमादपरिहारा-ऽपरिहारयोर्वणिग्महिलाद्वयोरुदाहरणम्एका वणिग्महिला प्रोषितपतिका निजवपुःशुश्रूषापरा गृहव्यापारेषु प्रमत्ता दासादीनां
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy