SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ९६] [उत्तराध्ययनसूत्रे यथार्ह भोजनाद्यप्यददाना तैर्मुक्ता, ततो गृहागतेन भर्ना स्वगृहे भृत्यविभवहानिं दृष्ट्वा सा स्त्री निष्कासिता।ततो वणिजा बहुद्रव्येणान्या परिणीता, साचन स्वदेहशुश्रूषां करोति यथार्ह भृत्यान् भोजयन्ती कार्येषु नियुञ्जयन्ती च, भर्ना गृहस्वामिनी कृता ।इहैव जन्मनि प्रथमस्त्रीवत्प्रमादादोषान् प्राप्नोति, अप्रमादाद् द्वितीयस्त्रीवद् गुणानवाप्नोतीत्युपनयः ॥१०॥ मुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं । फासा फुसंती असमंजसं च, न तेसु भिक्खू मणसा पओसे ॥११॥ स्पर्शाः-स्पृश्यन्त इन्द्रियैरिति स्पर्शाः-शब्दादयो विषयाः, श्रमणं-साधुमसमञ्जसंप्रतिकूलं यथा स्यात्तथा स्पृशन्ति, साधुं प्रति दुःखदा भवन्ति कीदृशाः स्पर्शाः ? अनेक रुपास्त्रयोविंशतिविधाः, साधु किं कुर्वन्तं ? मुहुर्मुहुः- वारंवारं मोहस्य गुणान् जयन्तं - शब्दादिविषयान् जयन्तं, भिक्षुस्तेषु प्रतिलोमेष्वनुलोमेषु वा न प्रादुष्येत-प्रद्वेषं न कुर्वीत न च हर्षितोऽपि भवेदित्यर्थः ॥ ११ ॥ मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा । रक्खेज्ज कोहं विणइज्ज माणं, मायं न सेविज्ज पयहिज्ज लोहं ॥१२॥ च पुनः साधुस्तथाप्रकारेषु विषयेषु मनो न कुर्यात्, तथाप्रकारेष्विति कीदृशेषु ? स्पर्शाः कीदृशाः सन्ति ? तानाह-स्पर्शा मन्दा वर्तन्ते, मन्दयन्ति मूषयन्ति विवेकिनमिति मन्दाः, पुनः कीदृशाः स्पर्शाः ? बहुलोभनीया-बहु लोभयन्ति लोभमुत्पादयन्तीति बहुलोभनीयाः, पुनः साधुः क्रोधं रक्षेत्, पुनर्मानं विनयेत्, गर्वं स्फेटयेत्, मायां न सेवेत, लोभं प्रसह्यात्परित्यजेत् ॥ १२ ॥ जे संखया तुच्छ परप्पवाई, ते पिज्जदोसाणुगया परज्झा । एए अहम्मुत्ति दुगुच्छमाणो, कंखे गुणे जाव सरीरभेओ ॥१३॥त्तिबेमि ॥ ये परप्रवादिनः संस्कृतास्तुच्छा यदृच्छाभिधानतया निःसारास्ते 'पिज्जदोसाणुगया' प्रेम - द्वेषानुगताः सन्ति पुनस्ते परज्झा:-परवशा राग-द्वेषग्रस्ताः सन्ति, एतेऽधर्महेतुत्वादधर्मा इत्यमुना प्रकारेण जुगुप्समानस्तत्परिचयं निवारयन्, निन्दायाः सर्वत्र निषेधान्न निन्दन् गुणान्-ज्ञानादीन् काङ्क्षताभिलषेत्, कथं यावच्छरीरभेदः शरीरस्य भेदः- पतनं स्यादित्यर्थः ॥ १३ ॥ ___ इति प्रमादा-ऽप्रमादयोर्हेयोपादेयसूचकमसंस्कृतप्रथमपदोपलक्षितमसंस्कृताख्यं चतुर्थमध्ययनं सम्पूर्णम्। ___ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां चतुर्थाध्ययनस्यार्थः सम्पूर्णः॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy