SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [ ९७ ॥ अथ पञ्चममकाममरणाख्यमध्ययनं प्रारभ्यते ॥ अथ पूर्वाध्ययने यावच्छरीरभेद इति ब्रुवता मरणकालेऽप्यप्रमादः कार्य इत्युक्तम्, स च मरणविभागज्ञानतः स्यात्, अतो मरणभेदमाह, इति चतुर्थपञ्चमयोः सम्बन्धः । अण्णवंसि महोघंसि, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापन्ने, इमं पण्हमुदाहरे ॥ १ ॥ एके महापुरुषा गौतमादयो घातिकर्मरहिता अर्णवात्संसारसमुद्रात्तीर्णाः- पारंप्राप्ताः, कीदृशादर्णवात् ? महौघात् महानोघो यस्य स महौघस्तस्मात्, अत्र प्राकृतत्वाद्विभक्तिव्यत्ययः । हे जम्बू ! तत्र देव-मनुष्यसभायामेकस्तस्मिन् काले, अत्र भरतक्षेत्रे एकस्य तीर्थङ्करस्य विद्यमानत्वादेको महावीरः, इमं प्रश्नं प्रष्टव्यार्थरूपं प्रश्नयोग्यं वाक्यमुदाजउदाहृतवान्, कथम्भूत एकः ? महाप्रज्ञः, महती केवलात्मिका प्रज्ञा-ज्ञप्तिर्यस्य स महाप्रज्ञः ॥ १ ॥ संति य दुवे ठाणा, अक्खाया मारणंतिया । अकाममरणं चेव, सकाममरणं तहा ॥ २ ॥ इमे प्रत्यक्षे द्वे स्थाने आख्याते, जीवनिवासाश्रयावाख्यातौ, पूर्वं तीर्थङ्करैः कथितौ, कीदृशे द्वे स्थाने ? मारणान्तिके - मरणमेवान्तो मरणान्तस्तत्र भवं मारणान्तिकम्, तस्मिन् मरणावस्थायां जाते इत्यर्थः । ते द्वे स्थाने के? एकमकाममरणं च पुनरन्यत्तथा सकाममरणम्, अकाममरणम्-बालमरणम्, सकाममरणं पण्डितमरणम्, चैवशब्दौ पादपूरणार्थौ । मरणं सप्तदशधा - आवीची- मरणम् १, अवधिमरणम् २, अन्तिम ( क ) मरणम् ३, वलन्मरणम् ४, वशार्तमरणम् ५, अन्तः शल्यमरणम् ६, तद्भवमरणम् ७, पण्डितमरणम् ८, बालमरणम् ९, मिश्रमरणम् १०, छद्मस्थमरणम् ११, केवलिमरणम् १२, वैहायसमरणम् १३, गृध्रस्पृष्टमरणम् १४, भक्तपरिज्ञामरणम् १५, इङ्गिनीमरणम् १६, पादपोपगमनमरणम् १७, [ चेति ] ॥ २ ॥ बालाणं अकामं तु, मरणं असई भवे । पंडियाणं सकामं तु, उक्कोसेण सइं भवे ॥ ३॥ बालानां मूर्खाणामकामम्, अकामेन - अनीप्सितत्वेन म्रियतेऽस्मिन्नित्यकाममरणमसकृद्वारंवारं भवेत्, तु पुनः पण्डितानां सकामम्, सह कामेनेप्सितेन म्रियतेऽस्मिन्निति सकाममरणम्, यस्मिन्नागते सत्यसन्त्रस्ततयोत्सवभूतत्वेन सकाममिव सकामम्, तादृशं मरणं पण्डितानामुत्कृष्टं सकृदेकवारमेव भवेत्, उत्कर्षेणोपलक्षितं केवलिसम्बन्धीत्यर्थः, जघन्येन तु शेषचारित्रवतः सप्ताष्टवारान् भवेत् ॥ ३॥ ૧૩
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy