SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ९८] [उत्तराध्ययनसूत्रे तत्थिमं पढमं ठाणं, महावीरेण देसियं ।। कामगिद्धे जहा बाले, भिसं कूराइं कुव्वई ॥४॥ तत्र तयोर्द्वयोर्मरणयोर्मध्ये प्रथम स्थानं महावीरेणाकामं मरणं देशितं-कथितम्, तथा येन प्रकारेण कामगृद्धाः- कामेष्विन्द्रियसुखेषु गृद्धाः कामगृद्धा-विषयिणो जीवाः, अत एव बाला-मूर्खा भृशमत्यर्थं वारंवारमकाममरणमतिकुर्वते; अशक्तावपि मनसा दुष्कर्माणि कृत्वा मुहुर्मुहुर्मियन्त इत्यर्थः, कीदृशा मूर्खाः ? क्रूराः ॥ ४ ॥ जे गिद्धे कामभोगेसु, एगे कूडाय गच्छई। न मे दिटे परे लोए, चक्खुदिट्ठा इमा रई ॥५॥ कामभोगेषु य एकः कश्चित्क्रूरकर्मा पुरुष: कूटाय-नरकस्थानाय नरकस्थानं गच्छतिनरकं व्रजतीत्यर्थः । कूट-प्राणिनां पीडाकरं स्थानम्, द्वितीयास्थाने चतुर्थी प्राकृतत्वात् । अथवा य एकः कश्चित्कामभोगेषु गृद्धः स कूटाय गच्छति, मृषाभाषादि कूटम्, तस्मै प्रवर्तते, तं प्रति कश्चिद्वक्ति-भो त्वं धर्म कुरु । तदा स वक्ति मया परलोको न दृष्टः, इमा' इयं रतिः कामभोगसुखं रतिः चक्षुदृष्टा - प्रत्यक्षं दृश्यमाना वर्तते ॥५॥ हत्थागया इमे कामा, कालिया जे अणागया ।। को जाणइ परे लोए, अत्थि वा नत्थि वा पुणो ॥६॥ इमे कामाः कामभोगा हस्तागताः, हस्ते आगता हस्तागताः-स्वाधीना वर्तन्त इत्यर्थः । येऽनागता - आगामिजन्मनि भविष्यन्तीत्यागामिनः, कामभोगसुखास्ते कालिकाः काले भवा: कालिका-अनिश्चिताः, को जानाति परलोकः- परभवोऽस्ति वा नास्ति वेति भावः ॥६॥ जणेण सद्धि होक्खामि, इइ बाले पगब्भई। कामभोगाणुराएणं, केसं संपडिवज्जई ॥ ७ ॥ ततःस कामभोगरसगृद्धः पुमान् बाल इति प्रगल्भते इतिधाष्टर्यं गृह्णाति, इत्युक्त्वा धृष्टो भवति, इतीति किं ? अहं जनेन सार्धं भविष्यामि, अयं कामभोगसुखभोक्ता जनो यादृशो भविष्यति,तेन सार्धमहमपि भविष्यामि। सबालइत्युक्त्वाकामभोगानुरागेण-कामभोगस्नेहेन क्लेशं सम्प्रतिपद्यते, क्लेशमिह परत्र च बाधात्मकं - दुःखं भजत इत्यर्थः ॥७॥ तओ से दंडं समारभई, तसेसु थावरेसु अ। अट्ठाए य अणट्ठाए, भूयग्गामं विहिंसई ॥ ८ ॥ ततः कामभोगानुरागात्स धाष्टर्यवान् त्रसेषु च पुनःस्थावरेषु, दण्डं समारभते, मनोदण्ड-वाक्कायैः पीडां समारभते, अर्थेन-दव्योत्पादननिमित्तम्, अनर्थेन-निष्प्रयोजनेन
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy