________________
४६ ]
[ उत्तराध्ययनसूत्रे
स्वामिना ढण्ढणर्षिरेव दुष्करकारक इत्युक्तम् । कृष्णेनोक्तं स इदानीं क्वास्ति ? स्वामी प्राह-त्वं नगरं प्रविशंस्तं द्रक्ष्यसि, हृष्टः कृष्णः श्रीनेमिजिनं प्रणम्योत्थितः, पुरद्वारे प्रविशंस्तं साधुं दृष्टवान्, हस्तिस्कन्धादुत्तीर्य कृष्णस्तं ववन्दे, तेन वन्द्यमानोऽयं साधुरेकेनेभ्येन दृष्टः, चिन्तितं च तेनाहो एष महात्मा कृष्णेन वन्द्यते । एवं चिन्तयत एव तस्य गृहे ढण्ढणर्षिः प्रविष्टस्तेन मोदकैः प्रतिलाभितः, ततः स स्वामिसमीपे गत्वा पृच्छति मम लाभान्तरायः क्षीणः किं ? स्वामिनोत्तमेष वासुदेवलाभः, मम परलाभो न कल्पते इत्युक्त्वा नगराद्बहिर्गत्वोचितस्थण्डिले मोदकान् विधिना परिष्ठापयन् शुभध्यानारोहेण केवली जातः । एवमन्यैरप्यलाभपरीषहः सोढव्यः ।
अलाभादनिष्टाहारला भादन्त्याहार - प्रान्त्याहारभोजनाच्छरीरे रोगा उत्पद्यन्ते, अतो रोगपरीषहोऽपि सोढव्यः । ततो रोगपरीषहमाह
नच्चा उप्पइयं दुक्खं, वेयणाए दुहट्ठिए । अदीणो ठाव पन्नं, पुट्ठो तत्थ हियासए ॥ ३२ ॥
तेगिच्छं नाभिनंदिज्जा, संचिक्खत्तगवेस । एवं खु तस्स सामन्नं, जं न कुज्जा न कारए ॥ ३३॥
वेदनया दुःखार्त्तितो मुनिरदीनः सन् प्रज्ञां स्थापयेत्-बुद्धि स्थिरां कुर्यात्, किं कृत्वा ? दुःखमुत्पतितमुद्भूतं ज्ञात्वा तत्र वेदनायां दुःखे वा रोगपरीषहमध्यासेत सहेत, कीदृशो मुनिः ? 'पुट्ठो' स्पृष्टो - रोगैर्व्याप्तः, दुःखयतीति दुःखं-रोगस्तेनार्त:-पीडितः क्रियते इति दुःखार्तितः, तादृशोऽपि प्रज्ञां स्थापयेत्, रोगार्त्तस्य हि प्रज्ञा चञ्चला स्यात्, साधुस्तु सद्भावेऽपि प्रज्ञां स्थिरामेव विदधीतेत्यर्थः ॥ ३२ ॥
तदा रोगार्त्तः किं कुर्यादित्याह-'तेगिच्छ 'मिति साधुः रोगार्त्तश्चिकित्सां रोगप्रतीकारं नाभिनन्देत्-नानुमन्येत, तदा चिकित्सायाः करणं कारणं दूरत एव त्यक्तम्, यदा मनस्यपि चिकित्साचिन्तनं साधुर्न कुर्यात्, कीदृशः साधुः ? आत्मगवेषकः, आत्मानं संयमजीवं गवेषयतीत्यात्मगवेषकः, एतादृशः सन् 'संचिक्खे' समाधिना तिष्ठेत् पीडया पीडितो न क्रन्देदित्यर्थः । खु यस्मात्कारणाच्छ्रामण्यं साधुत्वम्, 'एयं' एतदेव, 'जं' इति यस्मात्कारणादोगे समुत्पन्ने स्वयं चिकित्सां न कुर्यात्, अन्येनापि न कारयेत्, जिनकल्पिकापेक्षयास्थविरकल्पिकाः पुनः कारयन्त्यपीति वृद्धसम्प्रदायः ॥ ३३ ॥ अत्र कालवैशिककथा -
यमाचारः,
यथा - मथुरायां जितशत्रुनृपोऽतिसुरूपां कालाख्यां वेश्यामन्तःपुरेऽक्षिपत्, तस्या पुत्रः कालवैश्यकस्तस्य भगिनी मुद्गशैलनगरस्वामिना परिणीता । अन्यदा स कुमारः श्रृगालशब्दं श्रुत्वा स्वभृत्यानपृच्छत् कस्याऽयं स्वरः ? तैरूचे फेरुकस्वरोऽयम्, कुमारेणोक्तं