SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् २] [४५ ___ साधुः परेषु गृहस्थेषु ग्रासं कवलमेषयेत्, तत्र च भोजने ओदनादौ परिनिष्ठितेसम्पूर्णे सिद्धे वा लब्धे प्राप्ते सति वाथवाऽलब्धेऽल्पे लब्धेऽनिष्टे लब्धे वा पण्डितो मुनि नुतृप्येत्, लब्धिमानहं यतो मया सम्पूर्णमिष्टं वाऽऽहारं लब्धम्, अनिष्टेऽल्पे वा लब्धे तथा न दूयेतेत्यनुक्तोऽप्यर्थो गृह्यते ॥३०॥ तदा किं कुर्यादित्याह-अद्यैवाहमाहारं न लभे, अपीति सम्भावनायां सम्भा-वयामि, अद्यैवाऽऽहारं न प्राप्तम्, परं 'सुए' इति श्वः प्रभाते-आगामिदिने लाभः स्यादाहारस्य प्राप्तिर्भवेत् । उपलक्षणत्वादन्येधुरपरेधुरन्यतरेधुर्वा मा भूत्, यः साधुरेवं प्रतिसमीक्षतेइति चिन्तयति तं साधुमलाभपरीषहो न तर्जयेत्-नाभिभवेत् ॥ ३१ ॥ अत्र अलाभपरीषहे कथाद्वयम्; लौकिकं लोकोत्तरं च । तत्र प्रथमं लौकिकं कथानकं कथ्यते एकदा कृष्णो बलदेवः सत्यकिर्दारुक एते चत्वारोऽप्यश्वाहृता अटव्यां वटवृक्षाधो रात्रौ सुप्ताः, आद्ये प्रहरेदारुको यामिको जातः, अन्ये त्रयः सुप्ताः, तदानीं क्रोधपिशाचस्तत्राऽऽयातः, दारुकं प्रत्याह-अहमेतान् सुप्तान् साम्प्रतं भक्षयामि, यदि तवैषां रक्षणे शक्तिरस्ति तदा युद्धं कुरु? दारुकेणोक्तं-बाढम्, ततो लग्नं युद्धम्, यथा यथा दारुकस्तं पिशाचं हन्तुं न शक्नोति तथा तथा तस्य क्रोधो वर्द्धते । तथा च दारुकस्य न युद्धलाभो जातः, पराभूत एव दारुकः सुप्तः । द्वितीये प्रहरे सत्यकिरुत्थित क्रोधपिशाचेन तथैव जितः, तृतीये प्रहरे बलदेवः सोऽपि तथैव जितः, तुर्ये प्रहरे उत्थितं कृष्णं क्रोधपिशाचस्तथैव प्रोक्तवान् । कृष्णः प्राह - मां जित्वा मत्सहायान् भक्षय, ततो यथा क्रोधपिशाचो युध्यति तथा तथा कृष्णोऽहो बलवानेष मल्लः इति तुष्यति, यथा कृष्णस्तोषवान् भवति तथा तथा पिशाचः क्षीयति, एवं कृष्णेन पिशाचः सर्वथा क्षीणः स्ववस्त्रमध्ये क्षिप्तः, प्रभाते तान् अङ्गान् दृष्ट्वा कृष्णेनोक्तं-किमेतद्भवतां जातम् ? ते सर्वेऽपि रात्रिवृत्तान्तं प्राहुः, कृष्णेन स्ववस्त्रमध्यादाकृष्य दर्शितः, एवं कृष्णवद् यस्तोषवान् भवति सोऽलाभपरीषहं जेतुं शक्नोति । अथ द्वितीयं लोकोत्तरं ढण्ढणकुमारकथानकं कथ्यते - ___ कस्मिंश्चिद् ग्रामे कोऽपि कृशशरीरी कुटुम्बी वसति, अन्येऽपि बहवस्तत्र कुटुम्बिनो वसन्ति, वारकेण ते राजवेष्टिं कुर्वन्ति, राजसत्कपञ्चशतहलानि वाहयन्ति । एकदा तस्य कृशशरीरिणः पञ्चशतहलवाहनवारकः समायातः, तेन च वाहिता वृषभाः,भक्तपानवेलायामप्येकोऽधिकश्चाषो दापितस्तदान्तरायं कर्म बद्धम् ततो मृत्वासौ बहुकालमितस्ततः संसारे परिभ्रम्य कस्मिंश्चिद्भवे कृतसुकृतवशेन द्वारिकायां कृष्णवासुदेवस्य पुत्रत्वेन समुत्पन्नः, ढण्ढणेति तस्य नाम प्रतिष्ठितम् । स ढण्ढणकुमारः श्रीनेमिपार्थेऽन्यदा प्रव्रजितः, लाभान्तरायवशान्महत्यामपि द्वारिकायां हिण्डमानो न किञ्चिदन्नादि लभते, यदि कदाचिल्लभते तदा सर्वथासारमेव । ततस्तेन स्वामी पृष्टः, स्वामिना तु सकल: पूर्वभववृत्तान्तस्तस्य कथितः, तेन चाऽयमभिग्रहो गृहीतः, परलाभो मया न ग्राह्यः । अन्यदा वासुदेवेन स्वामिनः इति पृष्टम्, भगवन्नेतावत्सु श्रमणसहस्त्रेषु को दुष्करकारकः ?
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy