SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४४] [उत्तराध्ययनसूत्रे पुनस्तदेव दृढयति-'गोयरेति' गोचराग्रप्रविष्टस्य-भिक्षार्थं प्रविष्टस्य साधोः पाणिर्हस्तः पिण्डग्रहणार्थं न सुप्रसार्यः-सुखेन न प्रसार्यः, गौरिव चरति यस्मिन् स गोचरः, गोचरेऽग्रंप्रधानपिण्डग्रहणं गोचराग्रं, तन्निमित्तं प्रविष्टस्य-गृहस्थगृहे प्रस्थितस्य भिक्षार्थं करप्रसारणं दुष्करं भिक्षामार्गणं दुष्करम्, को नित्यं सम्यग्वपुष्मान्नरः भिक्षा मार्गयति ? तस्मादागारवासो-गृहवासः श्रेयानिति भिक्षुर्मनसि न चिन्तयेत् । यथाऽरण्ये याञ्चापरीषहो दुस्सहो, न तथा श्रीमद्गृहाकीर्णे पुरे । अतः स्त्रीणां निजरूपकृतमनर्थं दृष्ट्वा बलदेवर्षिः पुरप्रवेशं निषेध्य, यत एव याञ्चापरीषहं सोढवान् ॥ २९ ॥ ___ तत्कथा यथा-द्वारिकानगर्यामेकदा श्रीनेमिः समवसृतः, कृष्णेन द्वारिकाक्षयस्वमरणकारणं पृष्टम्, नेमिना मद्यपानविकली-भूतत्वत्कुमारोपसर्गसमुद्भूतक्रोधाद् द्वीपायनाद् द्वारिकाक्षयस्त्वन्मरणं च त्वद्भातृव्यज-राकुमारादेवेति प्रोक्तम् । वासुदेवेन द्वारिकायां निषिद्धमपि मद्यपानं भवितव्यतावशेन कृष्णपुत्रैः कृतम्, विकलीभूतैश्च तैः क्रीडार्थं नगरबहिर्गतैस्तत्रातापनां कुर्वन् द्वीपायनर्षि-दृष्टः, अरे ! त्वं द्वारिकाक्षयकारी भविष्यसीत्युक्त्वा यष्टि-मुष्ट्यादिभिरुपसर्गितः कोपाद् द्वारिकाक्षयनिदानं चकार, स तन्मारणेनैव मृतोऽग्निकुमारेषूत्पन्नः, तेन च द्वारिकाक्षयः कृतः, कृष्णबलदेवावेव निर्गतौ, अटव्यां तृषाक्रान्तेन वासुदेवेनोक्तं नाहमतःपरं चलितुं शक्नोमि, पानीयमानीय मे देहि ततो बलदेवेन पानीयार्थं दूरङ्गते पादोपरि पादं कृत्वा कृष्णः सुप्तः। अथ प्रागेव श्रीनेमिनाथवचनश्रवणसञ्जातभयेन जराकुमारेण वनवासं प्रपन्नेन तदानीमितस्ततो भ्रमता तत्रैवायातेन मृगभ्रान्त्या मुक्तबाणेन विद्धपादः कृष्णः पञ्चत्वमाप । तथापि तत्रायातेन बलदेवेन न मे भ्राता मृतः, किन्तु मद्विलम्बागमनोत्थरोषादेष मौनमाश्रितोऽस्तीति बुद्ध्या तच्छवं स्वस्कन्धे समुत्पाटितम्, पूर्वसङ्गतिकदेवेन प्रतिबोधे कृते बलदेवेन दीक्षा गृहीता । एकदा कस्मिंश्चिद् ग्रामे भिक्षार्थमायातस्य बलदेवस्य रूपं दृष्ट्वा व्यामोहं गतया कूपकण्ठस्थया कयाचिन्नार्या घटभ्रान्त्या स्वबालकण्ठ एव पाशितस्ततो बलदेवमुनिना प्रतिबोधिता सा बालगलात्पाशं दूरीचकार।ततो भिक्षार्थं ग्रामप्रवेशनियमो गृहीतः, वन एव तृणकाष्टहारकेभ्यो भिक्षां गृह्णाति, यदि तेभ्यो न प्राप्नोति तदा तप एव करोतीति । यथा बलदेवेन तुच्छलोकेभ्योऽपि भिक्षा मागिता, ततो याञ्चापरीषहः सोढस्तथापरैरपि सोढव्यः । एवं याञ्चापरीषहे बलदेवकथा ॥१४॥अथ याञ्चायां न लभेत तदाऽलाभपरीषहोऽपि सोढव्यः, अतोऽलाभपरीषहमाह परेसु गासमेसिज्जा, भोयणे परिनिट्ठिए । लद्धेवि पिंडे अलद्धे वा, नाणुतप्पिज्ज पंडिए ॥३०॥ अज्जेवाहं न लब्भामि, अवि लाभो सुए सिया। जो एवं पडिसंचिक्खे, अलाभो तं न तज्जए ॥३१॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy