________________
परीषहाध्ययनम् २]
[४३ स्थापितानि, स्कन्दकाचार्यस्तु तत्रैव समवसृतः । ततः पालकेन नृपस्याग्रे कथितम्, महाराज ! अयं स्कन्दकः पञ्चशतसाधवोऽपि च सहस्रयोधिनः परीषहभग्नास्तव राज्य गृहीतुकामाः समायातास्त्वां हनिष्यन्ति, राज्यं च गृहीष्यन्ति, यदि न प्रत्ययस्तदोद्यानं विलोकय ? एभिरायुधानि भूमौ गोपितानि सन्ति । नृपेणोद्यानं विलोकितम्, आयुधानि दृष्टानि, क्रोधात्तेन ते साधवस्तस्यैव दत्ताः, तेन सर्वेऽपि ते यन्त्रेण पीलिताः, वधपरीषहस्य सम्यगधिसहनादुत्पन्नकेवल ज्ञानाः सिद्धाः, स्कन्दकाचार्यस्तु सर्वेषां शिष्याणां तथाविधमरणं दृष्ट्वोत्पन्नक्रोधः सर्वस्याप्यस्य दाहकोऽहं स्यामिति कतनिदानोऽग्निकुमारेषूत्पन्नः।
अथाचार्यस्य रजोहरणं रुधिरलिप्तं गृधै : पुरुषहस्तं ज्ञात्वा चञ्चपुटेनोत्पाट्य पुरन्दरयशापुरः पातितम्, सापि महतीमधृतिं चकार, साधवो गवेषिताः, किन्तु न दृष्टाः, प्रत्यभिज्ञातानि कम्बलाद्युपकरणानि, ज्ञातं च तया साधवो मारिता इति । ततो धिक्कृतस्तया नृपतिः, अहं तव मुखं न पश्यामि, प्रव्रजिष्याम्येवेति वदन्तीं तां स्कन्दकभगिनीं देवाः श्रीमुनिसुव्रतस्वामिसमीपे मुक्तवन्तः, स्वामिना सा दीक्षिता । ततोऽग्निकुमारदेवेन सनगरो देशो दग्धः । ततो दण्डकारण्यं जातम्, अद्यापि तथैव तज्जनैर्भण्यते ।
एभिः साधुभिर्वधपरीषहः सोढस्तथापरैरपि सोढव्यः । न तु स्कन्दकाचार्यवत्कर्तव्यम् ।
अथ परैरभिहतस्यौषधादिकयाञ्चा स्यात्तस्माद्याञ्चापरीषहोऽपि सोढव्यः, अतस्तत्परीषहमाह
दुक्करं खलु भो निच्चं, अणगारस्स भिक्खुणो। सव्वं से जाइयं होइ, नत्थि किंचि अजाइयं ॥२८॥ गोयरग्गपविट्ठस्स, पाणी नो सुप्पसारए ।
सेओ अगारवासुत्ति, इइ भिक्खू न चिंतए ॥ २९ ॥ खल्विति निश्चयेन भोः स्वामिन्ननगारस्य भिक्षोर्नित्यं कष्टम्, अपरस्य च कदाचित्कष्टमुत्पद्यते । भिक्षोस्तु नित्यमेव कष्टम्, यदुक्तम् -
गात्रभङ्गः स्वरे दैन्यं प्रस्वेदो वेपथुस्तथा ।
मरणे यानि चिह्नानि, तानि चिह्नानि याचने ॥ १ ॥ - इत्युक्तत्वाद्भिक्षोनित्यं महत्कष्ट, तत्कि कष्टमित्याह-से इति तस्य भिक्षोः सर्वं वस्तु याचितं सद्भवति, अयाचितं-गृहस्थादमार्गितं किञ्चिदपि नास्ति, तस्माद्धि कष्टं भिक्षुजीवितमिति ॥ २८ ॥ १ “ज्ञानास्ते - मु० ॥ २ किन्तु - D. L. मु० १ नास्ति ॥