________________
४२ ]
[ उत्तराध्ययनसूत्रे
हओ न संजले भिक्खू, मणं पि न पओसए । तितिक्खं परमं नच्चा, भिक्खू धम्मं विचितए ॥ २६ ॥ समणं संजयं दंतं, हणिज्जा कोइ कत्थई । नत्थि जीवस्स नासोत्ति, एवं पेहिज्ज संजए ॥ २७ ॥
भिक्षुः साधुर्हतो यष्ट्यादिभिस्ताडितो न सञ्ज्वलेन क्रोधाध्मातः स्यात्, मनोऽपि न प्रद्वेषयेत्, चित्तं सद्वेषं न कुर्यादित्यर्थः । किं कृत्वा ? तितिक्षां क्षमां परमामुत्कृष्टां ज्ञात्वा दशविधसाधुधर्मे क्षान्तिमुत्कृष्टां विचार्य भिक्षुर्धर्मं विचिन्तयेत् मम धर्म एव रक्षणीय इति विचिन्तयेदित्यर्थः ॥ २६ ॥
कश्चिद् दुष्टः कुत्रचिदनार्यदेशे श्रमणं साधुं हन्यात्, प्राणापहारमपि कुर्यात्तदा संयतः साधुरेवं सम्प्रेक्षेत विचारयेत्, एवमिति किं ? जीवस्य नाशो नास्ति, शरीरस्य नाशो विद्यते, न च शरीरनाशे जीवनाशः कीदृशं साधुं ? संयतं जितेन्द्रियम्, पुनः कीदृशं ? दान्तं क्रोधादिरहितम् साधुना मनस्येवं चिन्तनीयम् कदाचिदहमस्मिन् शरीरनाशावसरे क्रोधं करिष्यामि तदा मम धर्मरूपजीवितव्यनाशो भविष्यति, न चास्मिन्नित्यदेहे नष्टे ममात्मनो धर्मस्य च नाशो भावीति ॥ २७ ॥ यदुक्तम् ॥
दोषो मेऽस्तीति युक्तं शपति शपति वा तं विनाज्ञः परोक्षे । दृष्ट्याः साक्षान्न साक्षादिति शपति न मां ताडयेत्ताडयेद्वा ॥
नासून् मुष्णाति तान् वा हरति सुगतिदं नैष धर्मं ममाहो । इत्थं यः कोऽपि हेतौ सति विशदयति स्याद्धि तस्येष्टसिद्धिः ॥ अत्र स्कन्दकशिष्याणां कथा -
यथा श्रावस्त्यां जितशत्रुनृपः, धारिणी प्रिया, तयोः पुत्रः स्कन्दकः, पुरन्दरयशा पुत्री कुम्भकारकटके पुरे दण्डकिनृपस्य दत्ता । तस्य पुरोहितः पालको मिथ्यादृक् । अन्यदा श्रावस्त्यां मुनिसुव्रतस्वामी समवसृतः, तस्य देशनां श्रुत्वा स्कन्दकः श्रावको जातः । एकदा पालकपुरोहितो दूतत्वेन श्रावस्त्यां प्राप्तः, राजसभायां जैनसाधुनामवर्णवादं वदन् स्कन्दकेन निरुत्तरीकृत्य निर्घाटितः सन् स्कन्दकुमारोपरिष्टश्छिद्राणि पश्यति । अन्यदा स्कन्दककुमारः श्रीमुनिसुव्रतस्वामिपार्श्वे पञ्चशतकुमारैः सह प्रव्रजितो गीतार्थो जातः, स्वामिना ते कुमारशिष्यास्तस्यैव दत्ताः । अन्यदा स स्कन्दकः स्वामिनं पृच्छति हे भगवन् ! भगिनीं वन्दापनार्थं गच्छामि ? स्वामिना भणितं तत्र मरणान्तिकोपसर्गोऽस्ति, स्कन्दकेनोक्तं भगवन् ! वयमाराधका विराधका वा ? स्वामिना भणितं त्वां मुक्त्वा सर्वेऽप्याराधकाः, स्वामिनैवमुक्तेऽपि भवितव्यतावशेन पञ्चशतशिष्यपरिवृत्तः स कुम्भकारकटकपुरे गतः । पालकेन तमागच्छन्तं ज्ञात्वा पूर्ववैरं स्मरता साधुस्थितियोग्योद्याने षट्त्रिंशदायुधानि भूमौ