________________
परीषहाध्ययनम् २]
[४१ दारुणाः पुनः कीदृशी: ? ग्रामकण्टकाः, ग्राम इन्द्रियगणस्तस्य कण्टका इव कण्टका ग्रामकण्टका दुःखोत्पादकाः यदुक्तम् -
चाण्डालः किमयं द्विजातिरथवा शूद्रोऽथवा तापसः, किं वा तत्त्वनिवेशपेशलमतिर्योगीश्वरः कोऽपि वा । इत्यस्वल्पविकल्पजल्पमुखरैः संभाष्यमाणो जनै! रूष्टो न हि चैव हृष्टहृदयो योगीश्वरो गच्छति ॥ १ ॥
__ [तुला भर्तृ ० वैरा ५४] पुनर्गालीं श्रुत्वेति चिन्तयेत्ददतु ददतु गालीलिमन्तो भवन्तो, वयमपि तदभावाद्गालिदानेप्यऽशक्ताः ।
जगति विदितमेतद्दीयते विद्यमानं, ददतु शशविषाणं ये महात्यागिनोऽपि ॥ १ ॥ इति विचार्य शमत्वेन तिष्ठेत् ॥ २५ ॥
अत्रार्जुनमालाकारर्षिकथा -
यथा - अथ राजगृहे नगरेऽर्जुननामा मालिकोऽस्ति, तस्य प्रिया स्कन्दश्रीनाम्नी वर्तते, स स्ववाटिकामार्गस्थं पुराबहिर्मुद्गरपाणियक्षं निरन्तरं स्वगोत्रदेवत्वेनार्चति । अन्यदा वाटिकागतस्यार्जुनमालिकस्य समीपे सा भोज्यं गृहीत्वा वाटिकायां यान्ती यक्षभवनस्थैः षट्पुरुषैर्दष्टा, भोगार्थं यक्षभवनान्तः प्रवेशिता । तदानीमेव तत्र यक्षपूजार्थं मालिकः समायातः, तं बद्ध्वा षडपि पुरुषास्तस्या भोगे प्रवृत्ताः । स पश्यत्येवं च चिन्तयति मयैष यक्षो मुधैवार्चितः, यदेतस्य पुर इत्थं पराभूयते । ततो यक्षस्तच्छरीरमनुप्रविश्य तान् षडपि पुरुषान् स्त्रीसप्तमान् मारयति स्म । एवं प्रत्यहं मारयति । ततो लोकोऽपि तस्मिन् मार्गे राजगृहपुरात्तावन्न निर्गच्छति यावत्सप्त मारिता न स्युः । अन्यदा श्रीवीरस्तत्र समवसृतः, न कोऽपि तद्भयेन वन्दनार्थं गच्छति । सुदर्शनश्रेष्ठी तु यद्भवति तद्भवतु, मया त्ववश्यं श्रीवीरस्तत्र गत्वा वन्दनीय एवेति विचिन्त्य तन्मार्गे चलितः, तं दृष्ट्वा मालिकशरीरप्रविष्टो मुद्गरपाणिर्यक्षो धावितः । ततः सुदर्शनश्रेष्ठिनार्हत्सिद्ध-साधु-शुद्धधर्मशरणं प्रपन्नम्, सागारिकमनशनमपि गृहीतम्, कायोत्सर्गेण स्थितम्, ततो धर्मप्रभावात्स यक्षस्तमाक्रमितुं न शक्नोति । पश्चाद्यक्षो मालिकशरीरं मुक्त्वा गतः, स्वस्थीभूतो मालिकः श्रेष्ठिमुखाद्वीरागमनं श्रुत्वा श्रेष्ठिना सह वन्दनार्थं गतः, वीरवचसा प्रतिबुद्धो दीक्षां गृहीतवान्, राजगृहनगरमध्य एव गृहे गृहे भिक्षार्थं भ्रमति, लोकास्तु स्वजनमारकोऽयमित्याक्रोशान् ददति, स मनो-वचन-कायशुद्ध्या तानाक्रोशान् विषयोत्पन्नकेवलज्ञानः शिवमगात् । एवमन्यैरप्याक्रोशपरीषहः सोढव्यः ॥१२॥ ___ अथ कश्चिदाक्रोशको दुर्वचनवादी साधोधमपि कुर्यात्, तदा तमपि सहेत अतस्तत्परीषहमाह