________________
४०]
[ उत्तराध्ययनसूत्रे साधुः प्रतिरिक्तं-पशुपण्डकस्त्र्यादिरहितमुपाश्रयं लब्ध्वा तत्रैवमध्यासीतैवं विचारयेत्, कीदृशमुपाश्रयं ? कल्याणं शुभं सुखदायकम् ।अथवा पापकं दुःखदायकमेतादृशमुपाश्रयं प्राप्यैवं चिन्तयेत्, एवमिति किं ? मे ममानयैकरात्रिस्थितियोग्यया स्थित्या किं कार्यम् ? एकरात्रं ममात्र निवासः करणीयः, किं करिष्यति कल्याणमुपाश्रयं प्राप्येति चिन्तयेत् पुण्यवन्तो जना एतादृशेषु स्थानेषु तिष्ठन्ति, अन्ये पामरास्तृणमय-मृत्तिकामयेषु नित्यं वसन्ति, मम त्वस्यां स्थितौ न ममत्वं विधेयम्, सुखदुःखं वा सहेत, जिनकल्पापेक्षयैकरात्रम्, एकरात्रिर्यत्र तदेकरात्रम् उपाश्रयं वसेत्, जिनकल्पो ह्येकरात्रमुपाश्रयं शुभं वाऽशुभं वा सेवेत । स्थविरकल्पो मुनिः कतिपयाहोरात्रवासी भवेत् ? स्थविरकल्पः पञ्चरात्रं नगरे वसति ॥२३॥
अत्र यज्ञदत्तद्विजपुत्रयोः कथा -
यथा कौशाम्ब्यां यज्ञदत्तद्विजपुत्रौ सोमदत्तसोमदेवनामानौ प्रव्रजितौ गीतार्थो जातौ । अन्यदा तत्पितरावुज्जयिन्यां गतौ, तावपि साधू विहरन्तौ तत्र गतौ । तत्र तदा देशरीत्या स्वगृहे क्रियमाणं विविधौषधिमिश्रं मद्यापरपर्यायं विकटं ( उष्णजलं) तयोः स्वजनैर्दत्तं तौ तत्स्वरूपमजानन्तौ जलविशेषबुद्ध्या पीतवन्तौ, परिणते च तस्मिन् ज्ञातमद्यस्वरूपौ तौ कृतपश्चात्तापौ तद्वैराग्यादेवानशनं पादपोपगमनामकं नदीतटस्थकाष्टोपरि प्रपन्नौ । ततोऽकालवृष्ट्या नदीपूरेण प्लावितौ समुद्रान्तः प्रविष्टौ, तत्र जलचरोपसर्ग विषह्य दिवं गतौ । इमौ हि नीरपूरागमेऽपि शय्यातो न पृथग्भूतौ । एवं शय्यापरीषहः सोढव्यः ॥११॥ . अथ शय्यास्थितस्य तत्रोपदवे जाते सति रागद्वेषरहितस्य साधोर्यदा कश्चिच्छय्यातरो वा शय्यातरादन्यो वा वचनैराक्रोशेदिति हेतोराक्रोशपरीघहोऽपि सोढव्यः, अतस्तत्परीषहमाह
अक्कोसिज्ज परो भिक्खुं, न तेर्सि पडिसंजले । सरिसो होइ बालाणं, तम्हा भिक्खू न संजले ॥२४॥ सुच्चाणं फरुसा भासा, दारुणा गामकंटया ।
तुसिणीओ उवेहिज्जा, न ताओ मणसीकरे ॥ २५ ॥ परोऽन्यः कश्चिद्यदि भिक्षं - साधुमाक्रोशेत दुर्वचनैस्तर्जयेत् । तदा तस्मै न प्रतिसञ्वलेत, तस्योपरि क्रोधं न कुर्यादित्यर्थः । यदि तस्योपरि साधुरपि क्रोधं कुर्यात्तदा सोऽपि बालानां-मूर्खाणां सदृशो भवेत्, तस्माद्भिक्षुःन सज्वलेन गाली श्रुत्वा प्रतिगाली न दद्यात् । तदा किं कुर्यादित्याह 'सुच्चाणं' इति साधुस्तूष्णीको-मौनी सन्नुपेक्षेत, औदासीन्येन तिष्ठेत्, रागद्वेषरहितो भवेत्, ता भाषा मनसि न कुर्यात्, किं कृत्वा ? परुषाः कठोरा भाषाः श्रुत्वा, कीदृशी: भाषा: ? दारुणाः, दारयन्ति संयमधैर्यं विदारयन्तीति