________________
परीषहाध्ययनम् २]
[३९ साधुरेकक-एकाकी सन् श्मशानेऽथवा शून्यागारे-शून्यगृहेऽथवा वृक्षमूले निषीदेदुपविशेत् ।परंतत्र कीदृशः सन् ? अकौकुच्यः, नास्ति कौकुच्यं यस्य सोऽकौकुच्यः, कौकुच्यं हि भण्डविट्चेष्टोच्यते, तया रहितः सम्यक् साधुमुद्रायुक्त इत्यर्थः । पुनः साधुस्तत्र निषण्णः सन् परमन्यं जीवं न वित्रासयेत्, तत्रस्थं जीवं स्थानभ्रष्टं न कुर्यादित्यर्थः ॥२०॥
पुनस्तदेव दृढयति- 'तत्थेति' पुनस्तत्र श्मशानादावास्थीयमानस्य भिक्षोर्यदोपसर्गा भवेयुस्तदा तानुपसर्गान् साधुरभिधारयेत् । किमेते उपसर्गा वराका मम करिष्यन्ति ? स्वयमेवोपशाम्य यास्यन्तीति मतिः कर्तव्येत्यर्थः । परं शङ्काभीतः सन् तत आसनादातापनास्थानादुत्थायान्यदासनं न गच्छेत्, आस्यते उपविश्यतेऽस्मिन्नित्यासनम्-आतापनास्थानमुच्यते, अत्र नैषेधिकीपरीषह कोऽर्थः ? यथा ग्रामादिष्वप्रतिबद्धेन चर्यापरीषहः सहनीयस्तथा शरीरेऽप्रतिबद्धेन नैषेधिकीपरीषहः सहनीयः नैषेधिकीनाम शरीरमित्यर्थः ॥२१॥
अत्र कुरुदत्तसाधुकथा___ हस्तिनागपुरे इभ्यपुत्रः कुरुदत्तनामा प्रव्रजितो विहरन् क्रमात्साकेतपुरदूरप्रदेशे प्रतिमायां स्थितः, तत्र चरमपौरुष्यां गोधनापहारिणश्चौराः समायाताः, तत्पृष्टौ त्वरितं गताः, पश्चागोस्वामिनः समायातास्तैश्चौरमार्गस्वरूपे पृष्टे स यतिर्न किञ्चिद् ब्रूते । ततः सञ्जातकोपैस्तैः शिरसि मृत्पालि कृत्वाङ्गाराः क्षिप्ताः, स यतिर्मनाग्नापसृतः, तां वेदनामधिसहमानः सिद्धि गतः । एवं नैषेधिकीपरीषहः सोढव्यः ॥१०॥
अथ नैषेधिक्यामातापनादिस्थाने स्वाध्यायादिकं कृत्वा शय्यायामुपाश्रये आगच्छेत्, अतस्तत्परीषहमाह
उच्चावयाहि सिज्जाहि, तवस्सी भिक्खु थामवं । नाइवेलं विहन्नेज्जा, पावदिट्ठी विहन्नई ॥ २२ ॥ पइरिक्कुवस्सयं लध्धुं, कल्लाणं अदु पावगं।
किमेगराइं करिस्सइ, एवं तत्थऽहियासए ॥२३॥ तपस्वी भिक्षुरुच्चावचाभिः शय्याभिरुपाश्रयैः कृत्वा स्थामवान् भवेत्, धैर्ययुक्तो भवेत्, कीदृशीभिः शय्याभिः ? उच्चाश्च अवचाश्च उच्चावचास्ताभिरुच्चावचाभिः, उच्चाः शीतादिरक्षणगुणैर्युक्ताः, अवचास्तद्विपरीताः, तादृशीभिः शय्यते यासुताः शय्या उपाश्रया उज्यन्ते । तत्रीपाश्रयेषु स्थितः साधुरतिवेलां-साधुर्मर्यादां न विहन्यात्, हर्ष-विषादाभ्यां साधुर्मर्यादायां तिष्ठेत्, सद्गुणयुक्तां शय्यां लब्ध्वा हर्षभाग् न भवेत्, गुणीनां शय्यां लब्ध्वा विषादभाग् न स्यात् । पापदृष्टिराचारहीनः, उच्चावचाभिः शय्याभिरतिवेलांसाधुर्मर्यादां विहन्यात्, हर्षविषादयुक्तः स्यात् ॥ २२ ॥