SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३८] [उत्तराध्ययनसूत्रे द्रव्येण भावेन चैकाक्येव विचरेत् । तत्र ग्रामः-कण्टकादिवेष्टितः, नगरं-प्राकारादियुक्तम्, निगमो-वणिग्जनस्थानम्, राजधानी-राजस्थानमेतेषु विहारं कुर्यात् । परं कीदृशः सन् भिक्षुर्विचरेत् ? असमानः सन्, न विद्यते समानो यस्य सोऽसमानः, गृहस्थोऽन्यतीर्थिलोकेभ्योऽधिकः सर्वोत्कृष्टः, पुनः कीदृशः ? गृहस्थैरसंसक्तो गृहस्थैः सह असम्मिलितः, पुनः कीदृशः ? 'अनिकेतः, न विद्यते निकेतो-गृहं यस्य सोऽनिकेतोऽनगारः, एतादृशः सन् परिव्रजेत् - सर्वतो विहरेत् ॥ १९ ॥ अत्र सङ्गमस्थविरदृष्टान्त:___ कोल्लागपुरे सङ्गमस्थविरा बहुश्रुता यथास्थितोत्सर्गा-ऽपवादनिपुणा दुर्भिक्षे गणं देशान्तरे प्रेष्य स्वयं नगरं नवभागीकृत्य व्यवस्थिताः, नगरदेवता च तेषां गुणै रञ्जिता । अन्यदा तत्र गुरुवन्दनार्थं दत्तनामा शिष्यः समायातः, तद्भक्त्यर्थं गुरवः सपात्रं तं सार्धं लात्वा भिक्षायां गताः, एकस्येभ्यस्य भद्रकप्रकृतेर्गृहे बालो व्यन्तरेण गृहीतः सदा रोदिति, उपायशतसहस्रकरणेऽपि व्यन्तरदोषोपशान्तिर्न जाता, गुरवस्तद्गृहे गताः, चप्पुटिकाकरणपूर्वं मारुद बालेत्युक्तम्, आचार्यतपस्तेजसा व्यन्तरो नष्टः, तुष्टास्तन्मातृपितृप्रभृतिस्वजनास्तेभ्यो मोदकांदिकमाहारं गाढाग्रहेण दत्तवन्तः, ते मोदकास्तस्यैव शिष्यस्य गुरुभिर्दत्ता, स्वयं त्वन्तप्रान्तमाहारं विहृत्य भुक्तवन्तः, प्रतिक्रमणावसरे तस्य शिष्यस्य पिण्डदोषमालोचयेति गुरुभिरुक्तम्, शिष्यश्चिन्तयत्यसौ धात्रीपिण्डं सदा भुङ्क्ते, मम त्वेवं कथयतीति चिन्तनसमय एव तद्भापनार्थं देवतयान्धकारं विकुर्वितम्, स भृशं बिभेति, गुरुं प्रति च वक्ति अहमत्र दूरस्थो बिभेमि, गुरवः प्राहुरेहि मत्समीपे, स वक्त्यस्मिन् घोरांधकारे नाहमागन्तुं शक्नोमि, गुरुभिस्थूत्कृतलिप्ता स्वाङ्गली दर्शिता, तदुद्योतेन सोऽत्रायातः, परं चिन्तयति गुरवो दीपकं रक्षयन्ति । एवं चिन्तयन्नेवासौ देवतया चपेटाभिस्तर्जितः, ज्ञातस्वरूपैर्गुरुभिस्तस्य नवभागीकरणादिकं स्वरूपं प्रकाशितम्, यथा सङ्गमस्थविरविहारक्रमापरपर्यायश्चर्यापरीषहोऽध्यासितस्तथा ग्लानत्वावस्थायामपि क्षेत्रनवभागीकरणेनापि चर्यापरीषहोऽन्यैरध्यासितव्यः ॥९॥ अथ यथा ग्रामादिष्वप्रतिबद्धेन चर्या सह्यते, तथा शरीरादिष्वप्यप्रतिबद्धेन नैषेधिकीपरीषहोऽपि सहनीयः, अतस्तं परीषहमाह सुसाणे सुन्नगारे वा, रुक्खमूले व एगओ । अकुक्कुओ निसीइज्जा, न य वित्तासए परं ॥ २० ॥ तत्थ से चिट्ठमाणस्स, उवसग्गाभिधारए । संकाभीओ न गच्छिज्जा, उद्वित्ता अन्नमासणं ॥२१॥ १ अनिकेतन: D. L.॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy