________________
परीषहाध्ययनम् २]
[३७ अथ भ्रातृमोहेन श्रीयकः कोशागृहे आलापनाय गच्छति वदति च हे कोशे ! त्वत्पतिर्मभ्राता स्थूलभदो यतिर्जातः, त्वत्पतिपिता शकडालश्च क्षयं गतस्तत्कारणमसौ वररुचिर्भट्टो ज्ञेयः, स च त्वद्भगिन्यामुपकोशायां 'रतोऽस्ति, यथेयममुं मद्यपानरतं करोति तथा विधीयतामित्युक्त्वा श्रीयकः स्वगृहे गतः ।
अथ कोशावचनादुपकोशा तं वररुचिं मद्यपानरतं चकार।ज्ञाततवृत्तान्ता च कोशा मद्यपानमसौ कुर्वन्नस्तीति श्रीयकायाचख्यौ । अन्यदा राज्ञा शकटालः स्मारितोऽहो गुणवान् शक्तो भक्तो महामन्त्री ममाभूत्, ईदृशोऽप्यसौ यदित्थं मृतस्तन्मे मनसि दूयते, इति राज्ञोक्तमाकर्ण्य श्रीयकः प्राह यन्मे पितेत्थं मृतस्तत्र मद्यपानकार्ययं वररुचिरेव कारणम्, श्लोकशिक्षणं डिम्भानां तेनैव कृतमित्यादि वार्तां चकार । राजा पप्रच्छ वररुचिः किं मद्यपानं करोति ? श्रीयकः प्राह श्वो दर्शयिष्यामीत्युक्त्वा स्वगृहे श्रीयकः गतः । अथ प्रभाते नृपपर्षद्युपविष्टानां सर्वेषां नराणां करेषु सङ्केतितपुरुषेण कमलानि श्रीयको दापितवान्, मदनफलचूर्णमिश्रितं कमलं च वररुचये दापितवान् । तद् गन्धमात्राद्वररुचिना पीतं मद्यं तत्रैव वान्तम्, राज्ञा तस्य धिक्कारपूर्वं नागरिकविप्रवृन्दवचसा तप्तत्रपुपानं कारितम्, स मृतः।
___ अथ क्रमाद्विहरन्तः स्थूलभद्रादिशिष्यसहिताः श्रीसंभूतिविजयाचार्याः पाटलिपुरे चतुर्मासिकस्थित्यै समायाताः । तत्रैकः शिष्यः कृतचतुर्मासकोपवास: सिंहगुहायां गुर्वाज्ञया स्थितः । एकश्च दृष्टिविषसर्पबिले स्थितः, एकः पुनः कूपदारुणि तथैव स्थितः ।स्थूलभद्रस्तु नित्याहारकारी कोशावेश्यागृहे गुर्वाज्ञया स्थितः । कोशया त्वस्य पुरस्तादृशा हावभावा विहिता यथा परमयोगीश्वरोऽपि द्रवति, परमेतस्य मनो न मनागपि क्षुभितम्, प्रत्युत सा सुशीला श्राविका विहिता, शेषं चरित्रं तु प्रसिद्धमेव । एवं यथा स्थूलभद्रेण स्त्रीपरीषहः सोढस्तथापरैरपि साधुभिः सोढव्यः॥८॥ ____ अथैकत्र स्थितस्य मुनेः स्त्रीप्रसङ्गः स्यात्, अतश्चर्या कार्येति हेतोश्चर्यापरीषहः सोढव्यः, अतस्तमाह -
एग एव चरे लाढे, अभिभूय परीसहे । गामे वा नगरे वावि, निगमे रायहाणिए ॥ १८ ॥ असमाणो चरेभिक्खू, नेव कुज्जा परिग्गहं।
असंसत्तो गिहत्थेहि, अणिकेउ परिव्वए ॥ १९ ॥ लाढः साधुरेक एव चरेत्, लाढयति-यापयति आत्मानमेषणीयाहारेण निर्वाहयतीति लाढः, कुत्र कुत्र विचरेत् ? ग्रामे वाथवा नगरेऽपि, अथवा निगमे अथवा राजधान्यामपि १ रक्तो मु० ॥ २ मनाक D. L. ॥ ३ चारित्रं मु०॥