________________
३६ ]
[ उत्तराध्ययनसू
गङ्गां स्तौति, स्तुत्यन्ते पादाक्रमेण हस्ताभ्यां च जलमालोडयन्नपि न ग्रन्थिमाप्नोति, विखिन्नो वररुचिः, मन्त्रिणैवमुक्तं भो वररुचे ! तव कल्ये किं गन्थिक्षेपो विस्मृतः ? किं वा क्षिप्तोऽपि दीनारग्रन्थिरन्येनापहृतः ? यद्वा नन्दराज्ये परद्रव्यापहारी कोऽपि नास्तीत्युक्त्वा सग्रन्थिः सर्वजनानां भूपतेर्वररुचेश्च दर्शितः चरप्रेषणवृत्तान्तश्च प्रकटितः । ततो लोकैर्धिक्कृतः खिन्नो वररुचिर्मुखमाच्छाद्य मन्त्रिदत्तं च ग्रन्थि लात्वा स्वगृहे गतः, ततः परं मन्त्रिच्छिद्राणि 'विलोकयति, परं न पश्यति, ततो मन्त्रिगृहदास्या सह स्नेहं चकार, तद्गृहवार्तां च पृच्छति, सापि तत्स्नेहलुब्धा सर्वं कथयति । अन्यदा तस्याग्रे तया प्रोक्तमधुना श्रीयकविवाहः समायातोऽस्ति । राजा गृहे आकारयिष्यते, तत्सत्काराय नवीनच्छत्र-चामर-सिंहासनशस्त्रादिसामग्री जायमानास्ति । ततो वररुचिश्छिदं मनसि कृत्वा नागरिकडिम्भान् मोदकदानेनेदं पाठयति -
*'नंदराय नवि जाणई, जं सगडाल करेसि ।
नंदरायं मारेउ करी, सिरिय उ राज ठवेसि ॥ १ ॥'
पठन्ति ते तथैव मार्गे मार्गे, तद्राजवाटिकां गच्छता राज्ञा श्रुतम्, मन्त्रिगृहे चराः प्रेषिताः, तैस्तत्र छत्रादिसामग्री जायमाना दृष्टा, राज्ञोऽग्रे कथिता, राजा रुष्टः, प्रभाते प्रणामार्थं गतेन मन्त्रिणा क्रोधवह्निज्वालामालाकुलो दृष्टः, ज्ञातं च स्वकीयसकलकुटुम्ब - क्षयकारिराजकोपस्वरूपम्, त्वरितमेव पश्चात्स्वगृहे गतः, श्रीयकस्याग्रे राजकोपस्वरूपमुवाच, एवं च सचिवेन तस्य शिक्षा दत्ता हे वत्स ! कल्ये यदाहं नृपस्य प्रणामं करोमि तदा त्वया खड्गेन मच्छिरश्छेदः कार्यः, अन्यथा सर्वकुटुम्बक्षयमसौ करिष्यति, मुखक्षिप्ततालपुटविषस्य मम शिरश्छेदे तव न कोऽपि दोष इति पैत्रवचस्तेन महता कष्टेन प्रतिपन्नम् । प्रभाते राज्ञोऽग्रे तथैव कृतम्, राजपर्षदि हाहाकारो जातः, राज्ञोक्तं हे श्रीयक ! किमिदं त्वया कृतं ? श्रीयकः प्राह हे राजन् ! मम पित्रा न प्रयोजनम्, किन्तु तवाज्ञायां (ज्ञया) प्रयोजनम्, यत्तवानिष्टं तन्ममाप्यनिष्टमेवेत्यसौ मया हतः, तुष्टो भूपतिः श्रीयकस्य कथयति त्वं मन्त्रिमुद्रां गृहाण । तेनोक्तं मम वृद्धभ्राता स्थूलभद्रः कोशागृहे तिष्ठति । ततः स्थूलभद्रो नृपेणाकारितस्तत्रायातः, नृपेणोक्तं मन्त्रिमुद्रां गृहाण, तेनोक्तमालोच्य गृहीष्ये । ततोऽशोकवाटिकायां गत्वा आलोचयति संसारस्यानित्यताम्, पितृविनाशकारिण्या मुद्रायाः शाकिन्या इव `त्यागार्हतामालोच्य लोचोऽनेन कृतः, गृहीता स्वयं तपस्या, राजसभायां समायातस्यास्य नृपेणोक्तं भोः स्थूलभद्र ! आलोचितं ? स्थूलभदः प्राह-लोचितं शिरो मयेत्युक्त्वा गतः स्थूलभद्रः क्वचिन्नगरे संभूतिविजयसूरेः शिष्यो जातः ।
१ विलोक्यते मु० ॥
* नन्दराजा नापि जानाति, यत् शकटालः करिष्यति ।
नन्दराजानं मारयित्वा श्रीयकं राज्ये स्थापयिष्यति ॥ १ ॥
२ त्यागार्हता च आलोच्य D. L. ॥