SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् २ ] [ ३५ कोशावेश्याया गृहे मुक्तस्तत्र तस्या मार्गितं सुवर्णादि यथेष्टं प्रेषयति, द्वितीयपुत्रः श्रीयकनामा राजाङ्गपार्श्ववर्त्ती विहितः । अस्मिन्नवसरे तन्नगरवास्तव्यो वररुचिनामा भट्टो नवीनकृतैरष्टोत्तरशतकाव्यैर्नन्दभूपालं प्रत्यहं स्तौति, राजा च तस्मै द्रव्यदित्सुः शकटालमन्त्रिमुखं विलोकते, शकटालमन्त्री तु मिथ्यात्ववृद्धिभीरुर्न तत्काव्यानि स्तौति, मन्त्रिप्रशंसां विना राजा न तस्मै किञ्चिद्दत्ते, वररुचिना तु मन्त्रिभार्या स्ववचनामृतेन तोषिता स्वभर्तारं शकटालमन्त्रिणं प्रत्याह वररुचेः काव्यानि त्वया नृपपर्षदि व्याख्येयानि, यथास्थितवस्तुप्ररूपणे सम्यक्त्वस्य भूषणं न तु दूषणमित्यादि स्ववनितावचोयुक्त्या तत्काव्यप्रशंसनं प्रतिपन्नम् । प्रभाते पर्षदि भूपतेः पुरो वररुचिप्रोक्तानि काव्यानि मन्त्रिणा प्रशंसितानि, तत्प्रशंसाऽनन्तरमेव राज्ञा वररुचिभट्टाय दीनाराणामष्टोत्तरशतं दत्तम् । ततः प्रतिदिनं विप्रो भूपतेः पुरोऽष्टोत्तरशतकाव्यानि नवानि वक्ति, स्तुतिप्रान्ते भूपप्रदत्तं दीनाराष्टशतं गृह्णाति, ततो वृद्धिमान् वररुचिनामा भट्टः शतसहस्त्रवित्तव्ययेन यागहोमादि करोति । मन्त्री तु कथा वर्धमानं मिथ्यात्वं दृष्ट्वा तद्दाननिषेधाय राज्ञः पुर एवमुवाच- हे राजन्नस्य ब्राह्मणस्यैतावद्धनं दत्वा कथं कोशक्षयो विधीयते ? अयं तु परकाव्यहरणात्कवितस्करोऽस्ति, राज्ञोक्तं किमसौ पुरातनकविकृतानि काव्यानि मत्पुरो वक्ति ? मंन्त्रिणोक्तमेतदुक्तानि काव्यानि सप्ता अपि मत्पुत्र्यः पठन्ति, राज्ञोक्तं प्रातरेतदुक्तानि काव्यानि तव सप्तपुत्रीपार्श्वे पाठनीयानि । ततो मन्त्रिणा सर्वं शिक्षयित्वा सप्ता अपि पुत्र्यः प्रभाते भूपपर्षदि यवन्यंतरिताः स्थापिताः, ताश्च क्रमात्प्रथमा पुत्र्येकवारश्रुतसर्वग्रन्थधारिका, द्वितीया तु द्विर्वारश्रुतसर्वग्रन्थधारिका, एवं सर्वा अपि यावत्सप्तमी पुत्री 'सप्तवारश्रुतसर्वग्रन्थधारिका, एतादृशधारणान्विताः सन्ति । I अथ तत्र समायातो वररुचिः स्वकृतकाव्यानि नृपतेः पुरो वक्तुमारेभे स्तुत्यन्ते भूपतिनोक्तमहो भट्टैतानि काव्यानि त्वत्कृतानि परकृतानि वा ? सोऽवाक् मत्कृतान्येव । राज्ञोक्तमेतानि काव्यानि मन्त्रिणः सप्तपुत्रीणां मुखे समायान्ति, स वक्ति यदि ता वक्ष्यन्ति तदाहमसत्य:, एवं तेनोक्ते यवन्यंतराद्यक्षानाम्नी प्रथमा पुत्री भूपतेः पुरः समागत्य सर्वाणि तानि काव्यानि पपाठ । एवं क्रमात्सर्वा अपि तानि काव्यानि पेठुः, तथाप्रज्ञासद्भावात्ततो निष्कासितो राजकुलाद्वररुचिर्भूपेन, सभाजनेन च तिरस्कृतः सर्वत्रापमानं प्राप्तः । अथ तेनेत्थं कपटं प्रारब्धम्, सन्ध्यायां गङ्गाजलान्तर्यन्त्रं कृत्वा दीनारपञ्चशतीं मुक्त्वा प्रभाते तत्र गत्वा गङ्गां स्तौति, स्तुत्यन्ते लोकसमक्षं जलयन्त्रग्रन्थि पादेनाक्रम्य हस्ते गृहीत्वा जनेभ्यो दर्शयति मत्स्तुतिरञ्जिता गङ्गा मह्यमेवं दत्ते, राज्ञा तु कार्पण्यान्ममासत्कल ङ्कमारोप्य तिरस्कारः कृत इति च वदति, तद्वार्ता श्रवणाल्लज्जितो राजा तद्वृत्तान्तं शकटालमन्त्रिणोऽग्रे कथयामास, मन्त्रिणा तत्र चरप्रेषणेन तज्जालयन्त्रं ज्ञात्वा दीनारपञ्चशतग्रन्थिमानाय्य स्वकरे धृतः, प्रभाते तत्र भूपतिः सनगरलोकस्तत्रायातः, वररुचिरपि १ सप्तवारश्रुतग्रन्थधारिका मु० ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy