________________
३४]
[उत्तराध्ययनसूत्रे अन्यदा तावटव्यां गतौ, देवः कण्टकाकुले मार्गे चरति, स प्राह कस्मादुन्मार्गेण यासि ? देवेनोक्तं त्वमपि विशुद्धं संयममार्ग परित्यज्याधिव्याधिरूपे कण्टकाकीर्णे संसारमार्गे कस्माद्यासि ? एवं देवेनोक्तेऽपि स न बुद्ध्यते । पुनरेकस्मिन् देवकुले तौ गतौ, तत्र यक्ष ईप्सितपूजापूज्यमानोऽपि पुनः पुनरधोमुखः पतति, स कथयत्यहो यक्षस्याधमत्वं ! यत्पूज्यमानोऽप्ययमधोमुखः पतति, देवेनोक्तं त्वमप्येतादृशोऽधमः, यद् वन्द्यमानः पूज्यमानोऽपि त्वं पुनः पुनः पतसि, ततः स साधुर्वक्ति कस्त्वं ? देवेन मूकरूपं दर्शितम्, पूर्वभवसम्बन्धश्च कथितः, स वक्त्यत्र कः प्रत्ययः ? ततो वैताढ्ये चैत्यवन्दापनार्थं देवेनाऽसौ प्रापितः, तत्रैकस्मिन् सिद्धायतनकोणे दुर्लभबोधिदेवेन स्वबोधाय मूकविदितं स्वकुण्डलयुगलं स्थापितमभूत्, तत्तदानीं दर्शितम्, ततस्तस्य जातिस्मरणं जातम्, तेनाऽस्य चारित्रदृढताऽभूत्, अस्य पूर्वमरतिः पश्चादतिः ॥७॥
अथ संयमेऽरतिसद्भावे सति स्त्रीष्वीहा स्यात्, स च परीषहोऽपि सोढव्यः । अतस्तत्परीषहमाह -
संगो एस मणुस्साणं, जाओ लोगंमि इत्थीओ। जस्स एसा परिणाया, सुकडं तस्स सामण्णं ॥१६॥ एवमादाय मेहावी, पंकभूया उ इथिओ ।
नो ताहि विहन्निज्जा, चरिज्जत्तगवेसए ॥१७॥ लोकेऽस्मिन् संसारे मनुष्याणामेताः स्त्रियः सङ्गो जातोऽस्ति, नराणां स्त्रियो बन्धनं वर्त्तते यथा मृगाणां बन्धनं वागुरादि विद्यते, सङ्गच्छते-वशीभवति जीवो यस्मात्स सङ्गो बन्धनमित्यर्थः । अत्र मनुष्यग्रहणं तेषामेव मैथुनसंज्ञाया आधिक्यात् यथा मक्षिकाणां श्लेष्मसङ्गो बन्धनम्, तथा पुरुषाणां स्त्रियो बन्धनमित्यर्थः, यस्य साधोरेताः स्त्रियः परिसमन्ताद् ज्ञपरिज्ञया ज्ञाताः प्रत्याख्यानपरिज्ञया प्रत्याख्याता:-परित्यक्ताः, अनर्थहेतुरूपा ज्ञाताः, अत्र प्राकृतत्वात्तृतीयास्थाने षष्ठी, येन साधुना स्त्रिय एतादृश्यो ज्ञातास्तस्य साधोः श्रामण्यं सुकृतं-साध्वाचारः सफलः ॥१६॥
मेधावी धर्ममर्यादावांस्ताभिः स्त्रीभिर्न विहन्यात्, संयमजीवितघातेनात्मानं न विनाशयेत्, किन्त्वात्मगवेषकः सन् चरेत्, आत्मानं गवेषयतीत्यात्मगवेषकः, किं कृत्वा ? एवमादायैतत् ज्ञात्वा, एतदिति किं ? स्त्रियः पङ्कभूताः-मुक्तिमार्गे कर्दमभूताः, मुक्तिपथप्रवृत्तानां बन्धकत्वेन मालिन्यकारणं स्त्रियः सन्तीति ज्ञात्वा, तस्मात् स्त्रीणां सङ्गं विहाय मया संसारादात्मा निस्तारणीयः, इति बुद्धिमान् ॥१७॥
अत्र स्थूलिभद्रकथा
यथा - पाटलिपुत्रनगरेनवमो नन्दराजा, तस्य राज्यचिन्ताकारकः शकटालनामा मन्त्री वर्तते, तेन स्ववृद्धपुत्रः स्थूलभद्नामा लीलाविलासार्थं तन्नगराधिवासिन्याः