________________
परीषहाध्ययनम् २]
*'तावस किमिणा मूअव्वएण पडिवज्ज जाणिअं धम्मं । मरिऊण सूअरोरग, जाओ पुत्तस्स पुत्तत्ति ॥ १ ॥'
[ ३३
"
[ उपदेशपद गाथा ३०५ ]
एतां गाथां श्रुत्वा प्रतिबुद्धो गुरूणां सुश्रावकोऽभूत् ।
एतस्मिन्नवसरे सोऽमात्य [ पुरोहित ] पुत्रजीवदेवो महाविदेहे तीर्थङ्करसमीपे पृच्छति किमहं सुलभबोधिर्दुर्लभबोधिर्वा ? इति प्रश्ने प्रोक्तं तीर्थङ्करेण त्वं दुर्लभबोधिः कौशाम्ब्यां मूकभ्राता भावीति लब्धोत्तरः स सुरो गतो मूकपार्श्वे तस्य बहु द्रव्यं दत्वा प्रोक्तवान् यदाहं त्वन्मातुरुदरे उत्पत्स्ये तदा तस्या आम्रदोहदो भविष्यति, स दोहदः साम्प्रतं मद्दर्शितसदा-फलाम्रफलैस्त्वया तदानीं तस्याः पूर्णीकार्य:, पुनस्त्वया तथा विधेयं यथा तदानीं मम धर्मप्राप्तिः स्यात् । एवमुक्त्वा गतो देवः । अन्यदा देवलोकाच्च्युत्वा स देवस्तस्या गर्भे समुत्पन्नस्तस्याश्चाम्रदोहदः समुत्पन्नः, मूकेन पूर्वोक्तरीत्या पूरितः, पुत्रो जातः, मूकस्तु तं बालं लघुमपि करे कृत्वा देवान् साधूंश्च वन्दापयति, परं स दुर्लभबोधित्वेन तान् दृष्ट्वा रटति । एवमाबालकालादपि भृशं प्रतिबोधितोऽपि स न बुद्ध्यति । ततो मूकः प्रव्रजितः, गतः स्वर्गम् ।
अथ देवीभूतेन मूकजीवेन स दुर्लभबोधिर्बाल: प्रतिबोधकृते जलोदरव्यथावान् कृतः, वैद्यरूपं कृत्वा देवेनोक्तमहं सर्वरोगोपशमं करोमि, जलोदरी वक्ति मम जलोदरोपशान्ति कुरु । वैद्येनोक्तं तवासाध्योऽयं रोग:, तथाप्यहं प्रतीकारं करोमि यदि मम पृष्टावौषधकोत्थलकं समुत्पाट्य मयैव सहागमिष्यसि । तेनोक्तमेवं भवतु । ततो वैद्येन स जलोदरी सज्जीकृतः समाधिभाग्जातः, तस्योत्पाटनायौषधकोत्थलकस्तेन दत्तः, स तत्पृष्टौ भ्रमंस्तं कोत्थलकमुत्पाटयति, देवमायया स 'कोत्थलको ऽतीव भारवान् जातः, तमतिभारं वहन् स खिद्यति, परं तमुत्सृज्य पश्चाद् गन्तुं न शक्नोति । मा भूत्पश्चाद्गतस्य मे पुनर्जलोदरव्यथेति विमर्शं कुर्वन् वैद्यस्यैव पृष्टौ कोत्थलकं वहन् भ्रमति ।
एकदैकदेशे स्वाध्यायं कुर्वन्तः साधवो दृष्टास्तत्र तौ गतौ । वैद्येनोक्तं त्वं दीक्षां गृहीष्यसि यथा त्वां मुञ्चामि स भारभग्नो वक्ति गृहीष्याम्येव, ततो वैद्येनाप्यस्य दीक्षा दापिता, देवे च स्वस्थानं गते तेन दीक्षा परित्यक्ता, देवेन पुनरपि तथैव जलोदरं कृत्वा वैद्यरूपधरेण पुनरसौ दीक्षां ग्राहितः, पुनर्गते च देवे तेन दीक्षा त्यक्ता, तृतीयवारं दीक्षां दापयित्वा वैद्यरूपो देवः सार्धम् तिष्ठति स्थिरीकरणाय ।
एकदा तृणभारं गृहीत्वा स देवः प्रज्जवलद्ग्रामे प्रविशति । ततस्तेन साधुनोक्तं ज्वलति ग्रामे कथं प्रविशसि ? देवेनोक्तं त्वमपि क्रोधमानमायालो भैः प्रज्जवलिते गृहवासे वारंवारं वार्यमाणोऽपि पुनः कथं प्रविशसि ? वैद्यरूपेण देवेनैवमुक्तोऽपि स न बुद्धयते । * हे तापस ! किमनेन मूकव्रतेन प्रतिपद्यस्व ज्ञात्वा धर्मम् ।
मृत्वा शूकरोरगः, जातः पुत्रस्य पुत्र इति ॥ १ ॥
१ कोत्थलकोऽतिभारवान् - D. ॥